Book Title: Aagam 04 SAMAVAY Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१५०]
गाथा:
दर्शनीयाः अभिरूपाः प्रतिरूपा इति पूर्ववत् । 'केवइए'त्यादि, रत्नप्रभायाः पृथिव्या 'बहुसमरमणिजाओ भूमिभागाओ'त्ति बहुसमरमणीयस्य भूमिभागस्य ऊर्दू-उपरि तथा चन्द्रमसः-सूर्यग्रहगणनक्षत्रतारारूपाणि णमित्यलकारे किं ?वीइबइत्त'त्ति व्यतिव्रज्य-व्यतिक्रम्येत्यर्थः, तारारूपाणि चेह तारका एवेति, तथा 'बहूनी'त्यादि, किमित्याहऊर्द्धम्-उपरि दूरमत्यर्थ व्यतित्रज्य चतुरशीतिविमानलक्षाणि भवन्तीति सम्बन्धः, 'इतिमक्खाय'त्ति इति-एवंप्रकारा अथवा यतो भवन्ति तत आख्याताः सर्ववेदिनेति, 'ते णं'ति तानि विमानानि णमिति वाक्यालङ्कारे 'अचिमालिप्पत्ति अर्चिालि:-आदित्यस्तद्वत्प्रभान्ति-शोभन्ते यानि तान्यर्चिालिप्रमाणि, तथा भासाना-प्रकाशानां राशि:Pभासराशि:-आदित्यस्तस्य वर्णस्तद्वदाभा-छायावर्णो येषां केषांचित्तानि भासराशिवर्णाभानि, तथा अरय'त्ति अरजांसि |
खाभाविकरजोरहितत्वात् 'नीरय'त्ति नीरजांसि आगन्तुकरजोविरहात् 'निम्मल'त्ति निर्मलानि कक्खड(कर्कश)मलाभायात् 'वितिमिरत्ति वितिमिराणि आहार्यान्धकाररहितत्वात् विशुद्धानि स्वाभाविकतमोविरहात् सकलदोषविरामावा सर्वरत्नमयानि न दादिदलमयानीत्यर्थः, अच्छान्याकाशस्फटिकवत् श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात् घृष्टानीव घृष्टानि | खरशाणया पाषाणप्रतिमेव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेवेति निष्पका निकलङ्कविकलत्वात् कर्दमविशेषरहितत्वाद्वा निष्कङ्कटा-निष्कवचा निरावरणा निरुपघातेत्यर्थः छाया-दीप्सिर्वेषां तानि निष्कण्टकच्छायानि सप्रमा-12
दीप अनुक्रम [२३८-२४४]
SAREairatna
~283~

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324