Book Title: Aagam 04 SAMAVAY Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०४)
प्रत
सूत्रांक
[१५६
१५९]
गाथा:
१-९३
दीप
अनुक्रम
[२५४
-३८३]
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
समवाय [प्रकिर्णका:], मूलं [ १५६ से १५९ ] + ९३ गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४], अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
योगादुज्ज्वलः शुक्लत्वात् खच्छतया वा शुक्लान्तः कान्तियोगात् पाठान्तरे सुकृतः - सुपरिकम्मितत्वात् विमलो मलवर्जितत्वात् गोधुभत्ति- कौस्तुभाभिधानो यो मणिविशेषस्तं तिरीडंति-किरीटं च मुकुटं धारयन्ति ये ते तथा, कुण्डलोद्योतिताननाः पुण्डरीकवन्नयने येषां ते तथा, एकावली आभरणविशेषः सा कण्ठे ग्रीवायां लगिता-अवलम्बिता सती वक्षसि - उरसि वर्त्तते येषां ते एकावलीकण्ठलगितवचसः, श्रीवत्साभिधानं सुष्ठु लाञ्छनं महापुरुषत्वसूचकं वक्षसि येषां ते श्रीवत्सलाञ्छनाः, वरयशसः सर्वत्र विख्यातत्वात् सर्वर्तुकानि सर्वऋतुसंभवानि सुरभीणि-सुगन्धीनि यानि कुसुमानि तैः सुरचिता - कृता या प्रलम्बा- आप्रदीपना सोमंतत्ति-शोभमाना कान्ता-कमनीया विकसन्ती-फुलन्ती चित्रा-पञ्चवर्णा वरा-प्रधाना माला-स्रक रचिता- निहिता रतिदा वा-सुखकारिका वक्षसि येषां ते सर्वर्तुकसुरभिकुसुमरचितप्रलम्बशोभमानकान्तविकस चित्रवरमालारचितवक्षसः, तथा अष्टशतसंख्यानि विभक्तानि - विविक्तरूपाणि यानि लक्षणानि - चक्रादीनि तैः प्रशस्तानि - मङ्गल्यानि सुन्दराणि च - मनोहराणि विरचितानि - विहितानि 'अंगमंग'त्ति अङ्गोपाङ्गानि शिरोऽङ्गुल्यादीनि येषां ते अष्टशतविभक्तलक्षणप्रशस्तसुन्दरविरचिताङ्गोपाङ्गाः, तथा मत्तगजवरेन्द्रस्य यो ललितो - मनोहरो विक्रमः - संचरणं तद्वद्विलासिता संजातविलासा गतिः- गमनं येषां ते म | त्तगजवरेन्द्रललितविक्रमविलासितगतयः, तथा शरदि भवः शारदः स चासौ नवं स्तनितं- रसितं यस्मिन्निर्घोषे स नवस्तनितः स चेति समासः स चासौ मधुरो गम्भीरश्च यः क्रौञ्च निर्घोषः - पश्चिविशेषनिनादस्तद्वद् दुन्दुभिखरो-वर्च
For Parts Only
~319~
rary or

Page Navigation
1 ... 318 319 320 321 322 323 324