________________ 2- G षष्ठः प्रवं श्राध्यत्मसार: सटीका AIR // 21 // . यन्नामकर्म तस्योपार्जने हेतुत्वं मुख्यकारणत्वं / वर्ण्यते प्रोच्यते / यच्चातिशायिनश्चतुर्दशपूर्विणः संबन्धिनः। संयमस्य | चारित्रस्य / श्राहारकहेतुत्वं आहारकशरीरकरणफललब्धेः कारणत्वं वर्ण्यते तदित्यर्थः॥ 146 // तपःसंयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः / उपचारेण तद्युक्तं स्याघृतं दहतीतिवत् // 14 // तप इति–च पुनः। यत् पूर्वयोः पूर्वी वीतरागसंयमात् पूर्वकालिनौ यौ सरागौ तयोः। तपःसंयमयोः तपश्चारित्रयोः। स्वर्गहेतुत्वं देवगतिनामकर्मबन्धकारणत्वं वर्ण्यते / तत्पूर्वोक्तहेतुत्वं / उपचारेणारोपेण / युक्तं संगतं स्यानवेत् / किंवत् ? यथाऽग्नौ ज्वलति सति लोके घृतमाज्यं दहति ज्वलति इत्येवं जना जट्पन्ति, तन्मोदहेत्वोः सम्यक्त्वसंयमयोः शुनबन्धहेतुत्वमुपचारादित्यर्थः // 14 // - तर्हि निश्चयेन किमाश्रवसंवरावित्याकांक्षायामाहयेनांशेनात्मनो योगस्तेनांशेनाश्रवो मतः / येनांशेनोपयोगस्तु तेनांशेनास्य संवरः // 14 // येनेति-येन प्रवृत्तिरूपपरिणामेन / अंशेन विजागेन / आत्मनो जीवस्य योगः कर्मणा सह संबन्धो नवति / तेनोक्तरूपेण / अंशेन परिणामविनागेन प्रात्मैव श्राश्रवो वन्धहेतुः / मतः कथितः / तु पुनः / येन निवृत्तिरूपपरिणामेन / उपयोग इष्टसिधिसाधकस्वस्वरूपानुयायिबोधरूपोऽशः। अस्यात्मनो नवति / तेन प्रोक्तरूपेण / अंशेन परिणामविनागेन / आत्मैव संवरः कर्मनिरोधरूपो मतः कथित इत्यर्थः॥ 14 // येनासावंश विश्रान्तौ बित्रदाश्रवसंवरौ / जात्यादर्श व स्वच्छास्ववनागच्यः सदा // 14 // RAA RRC // 17 //