SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ पञ्चमप्रबं. श्रध्यात्म सारः सटीकः // 165 GANGACASSAGARGASCARSA भावना देशकालो च स्वासनालंबनक्रमान् / ध्यातव्यध्यात्रनुप्रेक्षालेश्यालिंगफलानि च // 101 // जावनेति-जावना ज्ञानादिकाः। तथा देशकालौ देशो ध्यानयोग्यविजनादिप्रदेशः, कालश्च ध्यानावसरस्तौ / तथा स्वासनाखंबनक्रमान् सु शोजनं ध्यानाविरोधि श्रासनं पद्मासनादिकं, श्रालंबनं च यदवलंब्य ध्यानमधिरोहति तत् वाचनाचादिकं, क्रमश्च मनोरोधादिकस्तान् / च पुनः / ध्यातव्यध्यात्रनुप्रेक्षालेश्यालिङ्गफलानि ध्यानु योग्यान्याझादीनि ध्यातव्यानि, ध्यातारश्चाप्रमत्तसाध्वादयः, अनुप्रेक्षा च ध्यानोत्तरकालागतानित्यतादिचिन्ता, खेश्याश्च ध्यातृशुनाशयरूपास्तेजःपद्मादिकाः, लिङ्गानि च जिनवचनश्रधादीनि, फलानि च स्वर्गमोक्षप्राप्त्यादीनीत्यर्थः॥११॥ ज्ञात्वा धयं ततो ध्यायेच्चतस्रस्तत्र जावनाः / शानदर्शनचारित्रवैराग्याख्याः प्रकीर्तिताः // 10 // | ज्ञात्वेति-ज्ञात्वा प्रोक्तरूपाणि जावनादिफलपर्यन्तानि वक्ष्यमाणप्रकारेण विदित्वा। ततस्तदनन्तरं धर्म्य धर्मध्यानं ।ध्या-2 येत् ध्येयं प्रति एकतानमना विचिन्तयेत् / तत्र तेषु ध्यानसाधनेषु। जावना जावयति वासयति आत्मानंध्यानयोग्यं करोति यानिस्ताः / चतम्रश्चतुर्विधाः। ज्ञानदर्शनचारित्रवैराग्याख्याः, तत्र ज्ञाने सति मनसो धृतिविशुद्धिः सूत्रार्थयोर्जगतोऽपि च सारं वेत्ति जीव इति नित्यं श्रुतान्यासपरो ज्ञाननावनानावितो नवति / तथा दर्शने प्रयत्नपरस्य जीवस्य प्रशमसंवेगनिर्वेदानुकंपास्तिक्यरूपं जिनशासने स्थैर्य जवतीति दर्शननावना। तथा जीवस्य नवकर्मानादानं पूर्वकृतनिर्जरणं शुलकर्मादानं च चारित्रानवतीति चारित्रजावना / तथा वैराग्यात् सुविदितजगत्स्वजावो विषयसंगरहितः सप्तजयव // 16 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy