________________ विध्यात्म सारः सटीका पञ्चमप्र. // 16 // त्मना विधानं, कारणं चान्यैः कारापणं, अनुमतिश्च परैः स्वयमेव क्रियमाणस्यानुमोदनं तत्र सहर्षजवनमिति यावत. तेषां घन्के कृते, तद्रूपा स्थितिः परिणतिः स्वरूपेणावस्थानं यस्य तत् / चतुर्विधं हिंसानुबन्ध्यादिचतुर्नेदं / रौषध्यान प्रोक्तरूपं / देशविरतिपर्यन्तं देशविरतिनामकपञ्चमगुणस्थानं यावत् / जीवानामिति शेषः। नवतीत्यर्थः // 6 // अथास्य लेश्या आहकापोतनीलकृष्णानां लेश्यानामत्र संजयः। अतिसंक्लिष्टरूपाणां कर्मणां परिणामतः॥ ए॥ कापोतेति-अत्र रौऽध्याने / कापोतनीलकृष्णानां पूर्वोक्तरूपाणां / लेश्यानां लिश्यते संश्लिष्यते संबध्यत इति या वत् श्रात्मा यानिस्ता लेश्याः परिणतिविशेषास्तासां / अतिसंक्लिष्टरूपाणां अतिशयेन संक्लिष्टं महामलिनं रूपं स्वरूपमुदयस्वलाव इति यावत् येषां तेषां कर्मणां ज्ञानावरणीयादीनां। परिणामतो विपाकतः। संजव उत्पत्तिनवतीत्यर्थः॥७॥ अथ श्लोकष्येनास्य लिंगानि फलं चाहउत्सन्नबहुदोषत्वं नानामारणदोषता / हिंसादिषु प्रवृत्तिश्च कृत्वाचं स्मयमानता // ए॥ उत्सन्नेति-दोषशब्दः प्रत्येक योज्यः। अत्र रौऽध्याने। उत्सन्नबहुदोषत्वं उत्सन्नोऽनुपरतोऽनिवार्यो दोषो हिंसादिषु प्रवृत्तिरूपः, तथा बहु प्राचुर्येण पुनः पुनस्तत्राकार्ये प्रवृत्तिरूपेण दोषः प्रोक्तरूपः, तयो वस्तत्त्वं / तथा नानामारणदोषता नानाविधेषु त्वक्तदाएनयनोत्खननादिषु हिंसाद्युपायेष्वसकृत्प्रवृत्तिरूपो दोषो नानादोषः / तथा मारणमवधिकृत्य प्रवृत्तेरप्यजातपश्चात्तापरूपो दोष आमारणदोषः प्राणान्तकृतेऽपि पश्चात्तापानावस्तयो वस्तत्ता / तथा हिंसादिषु // 16 //