________________ तृतीयप्रबं. श्रध्यात्मसार: सटीका // 6 // सततेति-हे प्राणिन् एषोऽनुजवप्रत्यक्षतया स्थितो मनस्तुरगश्चित्तहयः। श्रतिदृढैः सुप्रबखैः / गुणैानादिराजिः। नियंत्रितो बयोऽपि / नैव तिष्ठति नैव स्थितिं करोति / किं कुर्वन् ? सततकुट्टितसंयमजूतलोस्थितरजोनिकरैः सततमनारतं कुट्टितं चपलस्वजावपादप्रहारैर्जर्जरीकृतं यत् संयमजूतलं सप्तदशविधचारित्ररूपपुरुषनिवासस्थानस्थैर्यमहीतलं तस्माऽस्थिताः समुद्भूता ये रजसां कर्मधूलीनां निकराः समूहास्तैः / तमोऽज्ञानजनितपापान्धकारं / प्रश्रयन् सर्वतो विस्तारयन्नेवास्ते पुर्दमत्वादित्यर्थः // 10 // मनो मुरारोधपवनोऽस्तीत्याहजिनवचोघनसारम लिम्बुचः कुसुमसायकपावकदीपकः / अहह कोऽपि मनःपवनो बली शुन्नमतिमसंततिनंगकृत् // 11 // जिनवच इति-अहहेति खेदे / हे आत्मन् / अयं सर्वस्यानुनवप्रत्यदतया स्थितः / मनःपवनः सर्वत्रानिवारितगतिर्मनोवायुः / कोऽप्यपूर्वः / वली बलवान् वर्तते।कथंनूतः?जिनवचोधनसारमलिम्लुचः जिनाः सर्वविदोऽर्हन्तस्तेषां यानि वचांसि सिधान्तास्तान्येव घनसारा विशिष्टपरमार्थसारवत्कर्पूरोत्करास्तेषां मलिम्बुचः तउपयोगहरत्वात्तस्करः / तथा | कुसुमसायकपावकदीपकः कुसुमान्येव पुष्पाण्येव सायका बाणा यस्य स कन्दर्प इति यावत् स एव पावकोऽग्निस्तं दीप-18 यति प्रज्वालयतीति तधिकारवर्धकत्वात् तथा / तथा शुलमतिद्रुमसंततिजंगकृत् शुजा धर्ममंगखवती या मतिर्बुधिः सैव // 6 //