SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ तेत्यर्थः। तथाजूता सती। उपतस्थुषां उप समीपेतस्थुरिति उपतस्थिवांसस्तेषां समीपवर्तिनामिति यावत् / नित्यवैराणां नित्यं जातिस्वजावादाजन्म सदैव वैरं विरोधो येषां हंसमार्जाराहिमयूरमृगसिंहादीनां तेषामपि / अपिशब्दात् कारणिकवैराणां तु किमु वक्तव्यं ? | वैराणि विधेषजावान् / हन्ति नाशयति / तर्हि समतावतः स्वस्य वैराद्यपनाशने किं प्रोच्यते इत्यर्थः॥३०॥ द्रा ईदृप्रनावां समतां मत्वा तस्यामेव प्रयत्नो विधेय इत्याहकिं दानेन तपोनिर्वा यमैश्च नियमैश्च किम् / एकैव समता सेव्या तरी संसारवारिधौ // 3 // किमिति-नो नव्याः समताविरहितेन दानेन धनत्यागरूपान्नपानवस्त्रादिप्रदानेन किमिति किं कर्मनिर्जरणरूपं फलं? न किमपि पश्यामः / तथा तपोनिः बादशप्रकारैः किं / तथा यमैर्महाव्रताणुव्रतरूपैः किं। तथा नियमैः स्वाध्यायसंतोषादिरूपैः किं ? दानादिकं कुरुध्वं मा वा कुरुवं / तर्हि मुक्त्यर्थ किं कार्यमित्याह-संसारवारिधी संसारश्चतुर्गतिरूपो नवः स एव वारिधिः समुजस्तस्मिन् संतरणे / तरी प्रवहणरूपा / एकैव अन्तिीयैव / समता सर्वत्र तुल्यता / सेव्या समग्रकार्येषु प्रधानीकृत्य सेवनीया आराधनीयेत्यर्थः॥ 35 // समतासुखं स्वानुजवसिझमस्तीत्याहदूरे वर्गसुखं मुक्तिपदवी सा दवीयसी। मनःसंनिहितं दृष्टं स्पष्ट तु समतासुखम् // 40 // दूर इति-नो जव्या नवतामस्माकं च स्वर्गसुखं स्वर्गो देवलोकस्तस्मिन् तन्निवासिनां देवानामिति यावत् यत्सुखं
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy