________________ %AC त्यपेक्षायामाह-सम्यक्तत्त्वपरिलिदः सम्यक् यथावस्थितं तत्त्वं जीवादिपदार्थसार्थरूपं परिविनत्ति इयत्तावधारणसमर्थेन ज्ञानेन प्रमाणयति जानातीति यावत् तस्य / स्याहादिनः स्यादित्यव्ययं वस्तुनो नित्यानित्याद्यनन्तधर्मात्मकत्वद्योतकं, तेन वस्तु वदति प्ररूपयतीत्येवंशीलो यः स स्याहादी तस्य / शिवोपायस्पर्शिनः शिवो मोक्षस्तस्य ये उपायाः सम्य ग्दर्शनशानचारित्रगोचरा व्यवहारास्तान् स्पृशति अङ्गीकारपूर्वक परिपालयति यः स तथा तस्य / एतादृशस्य तत्त्वदसर्शिनः तत्त्वं सकलकर्मोपाधिवर्जितं ब्रह्मस्वरूपिणमात्मानं पश्यतीत्येवंशीलः यः स तथा तस्य एवंविधदृष्टिमतो जीवस्य गर्न वैराग्यं नवताधवर्जितं ब्रह्मस्वरूपिणमा कारपूर्वकं परिपालयति यः / %CAR मीमांसामांसला यस्य स्वपरागमगोचरा / बुद्धिः स्यात्तस्य वैराग्यं ज्ञानगर्जमुदञ्चति // 53 // मीमांसेति-यस्य योगिनः / मीमांसा तत्त्वविचारणा तया मांसला पुष्टा विशालतावती माध्यस्थ्यजावगरिष्ठेति यावत् / स्वपरागमगोचरा स्वागमो जैनसिधान्तः परागमश्च कपिलादिशास्त्रं तौ घावपि गोचरौ शेयतया रमणस्थली यस्याः सा तथाविधा। बुधिर्मतिः। स्यानवेत् / तस्यैवंविधस्य / ज्ञानगर्ने तृतीयं वैराग्यं / उदञ्चति उत्तरोत्तरं प्रवर्धमानं नवतीत्यर्थः॥ 53 // व्यतिरेकेण स्पष्टयन्नाहन स्वान्यशास्त्रव्यापारे प्राधान्यं यस्य कर्मणि / नासौ निश्चयसंशुद्धं सारं प्राप्नोति कर्मणः // 54 // नेति-यस्य मुनेः / स्वान्यशास्त्रव्यापारे स्व इति स्वमतशास्त्राणि अन्यमिति अन्यमतशास्त्राणि तयोर्विषये यो