________________ श्री कल्प श्री ऋषभ मुक्कावल्या चरित्रम् // 426 // चातुर्मासीदिनादेवं, विंशतिवासरावधि, वयमत्र स्थिताः स्मेति, पुरो वदन्ति साधवः-॥९॥ युग्मम्-पृच्छताञ्च गृहस्थाना, अनटिप्पनरीतितः, रीतिरेषा च विज्ञेया, वक्ष्यमाणेन वर्त्मना // 10 // ___तथाहि-वृद्धिश्च पौषमासस्य, युगमध्येऽभिजायते, युगान्ते शुचिमासस्य, मासो न वर्द्धते परः // 11 // टिप्पनं तत्तु नो क्वापि, ज्ञायते साम्प्रतं परम् , पञ्चशतादिनैयुक्ता, पर्युषणेति पूर्वजाः॥१२॥ अत्र वृद्धाः-यद्यधिकमासः स्यात्, तदा ते दिवसा न गणनीया:-यदि च-श्रावण:- अधिक: स्यात्तर्हि भाद्रशुक्लचतुर्थ्यामेव सम्वत्सरी कर्तव्या-यदि भाद्रः अधिकः स्यात्तर्हि द्वितीय भाद्रशुक्लचतुर्थी सम्वत्सरी कर्तव्या॥ ___अत्र कश्चिदाह-वर्द्धिते श्रावणे मासे, द्वितीय श्रावणस्य च, चतुर्थ्यामेव कर्तव्या, पर्युषणा सिते दले // 13 // भाद्रसितचतुर्थ्याच्च, न कर्तव्या कदाचन, अशीतिवासरापत्तेः, शास्त्रवाक्यप्रमाणतः // 14 // तथाहि-वासाणं सवीसइराए मासे विइक्कते इति वचनबाधास्यादिति चेन्मैवम् // अहो देवानुप्रिय ? शृणुएवमाश्विनवृद्धौ तु, चातुर्मासिककृत्यकम् , द्वितीयाश्विनशुक्लीये, कार्यञ्चतुर्दशीदिने // 15 // कुतः कार्तिक शुक्लस्य, चतुर्दश्यां कृते सति, शतवासरकापत्तिः, केन वार्या मनीषिणा // 16 // यतः-समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कंते सत्तरिराइदिएहिं सेसेहि, इति समवायाङ्ग -वचनबाधा स्यात्-न च वाच्यम्कुतः-आषाढमासमारभ्य, चातुर्मासिककृत्यकम् , प्रारभ्यते ततश्चोर्ज, चातुर्मासिककृत्यकम् // 17 // // 426 //