________________ श्रीकल्पमुक्तावल्या HERE श्री नेमिनाथ चरित्रम् व्याख्या-अर्हतः- अरिष्टनेमेः-वरदत्तप्रमुखाणि अष्टादश श्रमणानां सहस्राणि (18000) उत्कृष्टा एतावती श्रमणसम्पदा अभवत्-॥१७६॥ मू-पा-अरहओ णं अरिहनेमिस्स अज्जजक्खिणीपामोक्खाओ चत्तालीस अज्जियासाहस्सीओ उक्कोसिया अज्जीया संपया हुत्था // 177 // ___ व्याख्या-अर्हतः-अरिष्टनेमेः-आर्ययक्षिणीप्रमुखाणि चत्वारिंशत्-आर्यासहस्राणि (40000) उत्कृष्टा एतावती-आर्यासम्पदा अभवत् // 177 // मू-पा-अरहओ णं अरिहनेमिस्स नंदपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणत्तरं च सहस्सा उक्कोसिया समणोवासिगाणं संपया हुत्था // 178 / / व्याख्या-अर्हतः-अरिष्टनेमेः-नंदप्रमुखाणां श्रावकाणां एकः लक्षः एकोनसप्ततिश्च सहखाः (169000) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् / / 178 // मू-पा-अरहओ ण अरिहनेमिस्स महासुव्वयापामोक्खाणं समणोवासियाणं तिण्णिसयसाहस्सीओ छत्तीसच सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था // 179 // व्याख्या--अर्हतः अरिष्टनेमेः महासुव्रतप्रमुखाणां श्राविकाणां त्रयः लक्षाः षट्त्रिंशच्च (336000) सहस्त्राः उत्कृष्टा एतावती श्राविकाणां सम्पदा अभवत्-१७९।। // 33 //