SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्यां 327 // श्री नेमि नाथ चरित्रम् उपागत्य अशोकनामवृक्षस्य अधस्तात्-शिबिकां स्थापयति—संस्थाप्य शिबिकातः प्रत्यवतरति प्रत्यवतीर्य स्वयमेव-आभरणमालालङ्कारान् अवमुश्चति ततः स्वयमेव पञ्चमौष्टिकं लोचङ्करोति-कृत्वा च षष्ठेन भक्तेनअपानकेन (जलरहितेन ) चित्रायां नक्षत्रे चन्द्रयोग उपागते सति-एकं देवदुष्यं गृहीत्वा एकेन पुरुषाणां सहखेण सार्द्ध मुण्डो भूत्वा प्रभुः अगारानिष्क्रम्य साधुतां प्रतिपन्नः // 173 // मू-पा-अरहा अरिहनेमी चउपनं राइंदियाई निच्च वोसहकाए चियत्तदेहे, तं चेव सव्वं जाव-पणपन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स पनरसीपक्खे णं दिवसस्स पच्छिमे भागे उज्जितसेलसिहरे वेडसपायवस्स अहे अहमेणं भत्तणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमवागएणं झाणंतरियाए वद्रमाणस्स अणंते अणुत्तरे जाव केवलवरनाण-दसणे समुष्पम्ने जाव-जाणमाणे पासमाणे विहरइ // 174 // व्याख्या-अर्हन्-अरिष्टनेमिः चतुष्पश्चाशत-अहोरात्रान्-यावत्-नित्यं व्युत्सृष्टकायः तदेव पूर्वोक्तं सर्व वाच्यं यावत्पञ्चपञ्चाशतमस्य,-अहोरात्रस्य-अन्तरा वर्तमानस्य योऽसौ वर्षाकालस्य तृतीयो मासः पञ्चमः पक्षः आश्विनस्य कृष्णपक्षः तस्य आश्विनबहुलस्य पञ्चदशे दिवसे दिवसस्य पश्चिमे भागे उजयन्तनामशैलस्य शिखरे वेतसनामवृक्षस्य-अधस्तात् -अष्टमेन भक्तेन-अपानकेन (जलरहितेन ) चित्रायां नक्षत्रे चन्द्रयोगं उपागते सति शुक्लध्यानस्य मध्यभागे वर्तमानस्य प्रभोः अनन्तं केवलज्ञानं समुत्पन्नम् // 174 // // 327 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy