________________ THI AIIIIII-III RISITEle व्याधूतपक्षतिरुपेत्य नलं पतङ्गः प्रोवाच विह्वलमुपायनदत्तहारः // 54 // त्वं देव ! द्रुतमेव पूर्वविदितो भैम्या स्वयं स्वीकृतः सत्याय प्रहिता तया तव कृते स्वच्छाच्छगुच्छावली। सिद्धं कार्यमिदं तवेति शतशः पृच्छन् विहङ्गाननात् प्रत्युच्चार्य विचिन्त्य च प्रतिकलं न प्राप तृप्ति नलः // 55 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे चतुर्दशः सर्गः // 14 // प्रथमे उत्पत्तिस्कन्धे पञ्चदशः सर्गः / ततस्तं नैषधः स्वच्छं विहङ्गमसमाहृतम् / बभार हृदये हारं व्याहारं च दमस्वसुः // 1 // उत्तीर्य कार्यगाम्भीर्य प्रातः स्वीकारसंपदा / विरहाब्धेः परं पारं पश्यन्नासीत् समुत्सुकः // 2 // विहङ्गमसमानीतैः स्निग्धसंज्वलनैरिव / वैदर्भीवचनैस्तस्य दिदीपे विरहानल: ज्ञात्वाऽनुरागिणीं भैमी तत्सङ्गमसमुत्सुकम् / तं समाश्वासयन् तस्थौ किश्चित्कालं विहङ्गमः // 4 // अन्यदा स निशाशेषे तमनापृच्छय भूपतिम् / प्रतस्थे तीर्थयात्रार्थ स्वयूथसहितः खगः // 5 // आत्मकृत्यं विनिहोतुं दिविषद्विस्मयाय सः। यत्र तत्र निगूढात्मा भूरि बभ्राम भृतले // 6 // ततो भैमीवियोगेन विहङ्गविरहेण च / नृपतिः सान्द्रसन्तापः प्राप पूर्वाधिकां दशाम् // 7 // IASEII III ARISTIATI