________________ S TS आपृच्छय तं नृपकुमारमथ प्रयत्नात् सम्मेतवम॑नि ययौ स मुनिः सशिष्यः / तस्याज्ञयैव च नलेन गजाधिरूढा प्रस्थापिता पितृगृहं कनकावली सा // 55 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे त्रयोदशः सर्गः॥१३॥ II AISHI AIATSAIIASI प्रथमे उत्पत्तिस्कन्धे चतुर्दशः सर्गः। पुरं प्राप्तस्य तस्याथ लन्धमन्त्रास्त्रतेजसः / कुर्वाणस्य पितुः सेवा पक्षो यावद् व्यतीतवान् // 1 // जालन्धराधिराजेन प्रहितश्चन्द्रबाहुना / श्रीवीरसेनमानम्य दृतस्तावद् व्यजिज्ञपत् // 2 // राजेन्द्र ! तव पुत्राय नलनाम्ने मनस्विनी। चन्द्रबाहुक्षितीशेन प्रदत्ता कनकावली प्राणत्राणात् क्रयक्रीता पुराऽपि नलरागिणी / संप्राप्ता नगरद्वारे तदियं प्रतिगृह्यताम् अवधार्य तदुक्तं तत् तस्मिन्नेव दिने नृपः / वरवध्वोर्विवाहं स सप्रमोदमकारयत कालान्तरे च संभाव्य नलं राज्यधुरन्धरम् / स वृद्धसचिवं राजा सालंकायनमब्रवीत् // 6 // दशलक्षाणि वर्षाणां प्रजाकृत्यानि कुर्वतः। अमात्य ! मम यातानि स्वार्थश्चिन्त्योऽधुना मया // 7 // युवा धनुर्धरी वीरः समर्थः सांप्रतं नलः। तत् प्रार्थ्यतां कुमारोऽयं राज्यभारपरिग्रहे HILAIIIIIIIATISTIABILSIBITA