________________ प्रवयस्कन्धे सर्गः९ IISIS हंसी प्रति नलस्य कथनम्। वीरसेनतनय ! स्वयं पुनस्त्वद्गुणाः कलभदन्तकान्तयः - // 33 // ज्योत्स्ना स्वयं च धवला धवलीकरोति गङ्गा स्वयं च विमला विमलीकरोति / इत्थं धरावलयवज्रधर ! स्वयं सा धन्या करिष्यति च कश्चन धन्यमन्यम् ? इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे अष्टमः सर्गः // 8 // प्रथमे उत्पत्तिस्कन्धे नवमः सर्गः। IBEII III AIBilla TITABEII RISHIDIEI मुक्तो ग्राजहंसः तेन कृतं विदर्भनृपस्य वर्णनम् // अस्ति निस्तुपदाक्षिण्यदक्षिणापथमण्डनम् | विदर्भमण्डलाखण्डकुण्डलं कुण्डिनं पुरम् // 1 // तत्र चित्रारिवारस्त्रीगीतस्फीतपराक्रमः / प्रतिपक्षचममीमो भीमः श्रीमान् महीपतिः // 2 // किं वर्ण्यते स पत्रिंशत् खड्गकोटिमहार्णवः ? / प्रभुः सप्ततिलक्षाणां दक्षिणापथनायकः // 3 // तस्य त्रिभुवनाभोगभ्रान्तकीर्तेर्महीभुजः / प्रियङ्गुमञ्जरी नाम प्रिया गौरीव धूर्जटेः // 4 // भामिनी कामिनी कान्ता मानिनी दानिनी शुभा। शुद्धा स्निग्धा विदग्धा च मुग्धा च मृगलोचना // 5 // दाक्षिण्यपुण्यलावण्यशीललीलादिभिर्गुणैः / सधर्मचारिणी रेजे तादृशी तादृशस्य सा // 6 // तया सह मनस्विन्या तस्य वैषयिकं सुखम् / भुञानस्य महीभर्तुः कालः कश्चिद् व्यतीतवान् // 7 // HEII A III II AIISISEII // 17 //