SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ AIRISTIK I II II IIIF IIEI ते ते मत्राश्च यत्राश्च यक्षराक्षसवारणाः / प्रतिबोधा इवाभव्ये न तत्र प्रभवन्ति नः तस्मादस्मान् समायातान् शरणं तव पार्थिव!| त्वं रक्ष रक्षसस्तसात् संसारादिव संयमः नागायुतबलः क्रुद्धो मदान्धो मुद्गरायुधः / स वैरी हन्यतां वीर ! वीरसेनसुत ! त्वया दुष्टानां निग्रहो नित्यं शिष्टानामप्यनुग्रहः / अयं परम्परायातः कुलधर्मो महीभृताम् // 68 // विद्वद्भिः सह सङ्गमाय सपदि स्वस्यात्मनः प्रीतये / चातुर्योपगमाय पुण्यपुरुषक्रीडोपलम्भाय च / अर्थानां च समर्थनाय कृतिभिस्त्वं सर्वथा दृश्यसे / नैके केचन वीरसेनतनय ! त्वदर्शने हेतवः // 69 // दीपिन्योरिव जाह्नवीयमुनयोःस्थानं प्रयागः क्षितौ / लक्ष्मीशारदयोस्त्वमेकभुवनं मामण्डलाखण्डल!। तेनैवात्र मनीषितव्यतिकरं निर्दिश्य देशान्तरात् / यातायातमजसमाश्रमममी वर्णाश्रमाः कुर्वते // 7 // प्रतिदिवसमसङ्घधर्मकर्मोपलम्मरुपचिनु शशिभांसि स्वैरमुच्चैर्यशांसि / प्रसरतु भवदीयैः कीर्तिकल्लोलजालैर्दशदिशि जलकेलिक्रीडितं सत्कवीनाम् श्रुत्वा तदेतदतुलं वचनं मुनीना-मङ्गीकृतव्यतिकरः परवीरहन्ता / श्रीमन्तमुच्चमुनितं चतुरं तुरङ्गं तुझं तरङ्गतरलं त्वरयाऽऽरुरोह // 72 // अथ विदितविचारः शस्त्रवानश्ववारः कृतकलुषनिकारः शत्रुसंहारसारः / निषधपतिरुदारः स्फारशृङ्गारभारः कतिपयपरिवारः कौतुकी सञ्चचार // 73 // JA IMEIL AISFILA ISIS
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy