________________ // ॐ अहम् // OISIISISIT SSIA II A III AIIIIIIEIte श्रीमाणिक्यदेवसूरिप्रणीतं नलायनम्। (कुबेरपुराणेत्यपरनामकम् ) जयति जयति देवः केवलज्ञानमूर्तिर्मदमदनविजेता शाश्वतो वीतरागः / जयति कुमुदशुभ्रा भारती भूरिभावा जयति कविकुलानां कोमलो वाक्प्रपञ्चः॥१॥ दुरितदलनसज्जः सज्जनोद्धारधीरो धनवितरणवीरो धर्मविश्रामशाखी / जयति जगति नित्यं निश्चलो निष्कलङ्कः सकलकलुषहारी लोकपालः कुबेरः॥२॥ सुलिग्धैर्नवदुग्धमुग्धमधुरैः शुभैर्यशोभिर्जगद यश्चक्रे कलिकालकल्मषमषीविक्षेपिभिार्निर्मलम् / स श्रीमानलकापतेर्भगवतः पूर्वावतारः कृती नित्यं मङ्गलमातनोतु भवतां राजा नलो नैषधः॥३॥ ISIIEISFIII IIIIIII: