SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ // 32 // दर्भरस्य हि ममैव केवलं दुस्त्यजो विषयवासनाभरः इति मनसि तदीये चारुचारित्ररत्नग्रहणमतिरतीव स्थैर्यभावं गता च / मुनिरपि हि सुदामा नाम धाम श्रुतीनां वनभुवि वनपालस्थाननेन श्रुतश्च इति माणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे प्रथमः सर्गः // 1 // II // 33 // दशमे स्कन्धे द्वितीयः सर्गः। CISFICISIWISHI-IIII-ISHISIS // 1.. अथ श्रुत्वा भवभ्रान्ति शान्तिमान् मुनिसेवया / पवित्रयितुमात्मानं ययौ भैम्या समं नलः नत्वा स विधितस्तस्य मुनिकेसरिणः पुरः / विवेश विवशीकुर्वन् महामोह मतङ्गजम् तस्य मुक्तिलतामूलं वैराग्यं वाक्यवृष्टिमिः / सिषेच हृदयवापव्यापकं मुनिवारिदः राजन् ! विश्वैकवीराणां पथि प्रस्थितवानसि / यद् विनिर्जित्य बाह्यारीनन्तरङ्गान् जिगीषसि लीलया दुर्जया ह्येते विनिर्जितसुरासुराः / अनात्मवत्तया पुंसां सकृदुद्यममात्रतः क्षणिकं खलु वैराग्यं रागान्धमनसां नृणाम् / तद् दुःखं मोहगर्भ च सञ्जातमपि निष्फलम् ज्ञानगर्भ तु वैराग्यं यत् किश्चिदविनश्वरम् / तत्कार्यकरमत्रैकं क्वापि कुत्रापि कस्यचित् Finis...SEE AII // 7 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy