________________ जय जय जय शत्रून् मङ्गलं मङ्गलं ते पुनरपि निजदेशे सुप्रवेशस्तवास्तु / इति कलकलवृन्दैर्बन्दिना सूचितोऽभूत् पृथुकटकनिवेशस्तस्य गङ्गातटेषु इति श्रीमाणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे प्रथमः सर्गः॥ 1 // // 29 // FI SIBEII AISAlla II AIII NIBHILAIFIC अष्टम स्कन्धे द्वितीयः सर्गः। - तमागतमुपश्रुत्य कृतदिग्विजयं नृपम् / न पुष्करनृपस्यासीत् मनःक्षोभो मनागपि समर्थोऽपि नलस्तस्मिन् न च दण्डमधारयत् / क नु संबधबद्धानां प्रहर्तुं प्रगुणाः कराः प्रजिघाय ततो दूतं नलस्तस्मै वचोहरम् / परचित्तमहाकूपे स हि प्रथमसङ्कमः स तत्वकलया वाचा सदाचारविदाम्बरः / अभाषत सभासीनमदीनं पुष्करं प्रति दिल्या त्वं बड़से राजन् ! जयेन विजयेन च | दशदिग्विजयं कृत्वा न च भ्राता समागतः अद्य भूमिभृतः सर्वान् नले कुर्वति किङ्करान् / वीरसेनकुलं कान्त्या जित्वा मेरुमपि स्थितम् सर्वे शिरसि सानन्दं वहन्ति नलशासनम् / अग्रजत्वेन ते पूज्यः स तु राजा विशेषतः तस्मिनिह समायाते जिगीषौ ज्येष्ठबान्धवे / स्वागताचारवन्ध्यस्त्वं किं मूढ इव तिष्ठसि ! IASHI III III STI ASHISISle // 2 // // 4 // // 8 //