________________ सप्तमे सर्गः 5 दम यन्त्योविवादः॥ م = // 166 // سم = = = सप्तमे स्कन्धे पञ्चमः सर्गः / इति देव्याः वचः श्रुत्वा देवराजद्युतिनलः / प्रत्युवाच पुनर्वाचं वैचित्र्यचतुरान्तरः अयं ते विभ्रमो भैमि ! भूमिवाग्देवते ! वृथा / यदश्वहृदयादिभ्यो मयि कुब्जे नलभ्रमः // 2 // नन्वहं तस्य राजमहद्विश्वासभाजनम् / मयि न्यासीकृतास्तेन प्रीतेन सकलाः कलाः दृष्टश्चास्मि त्वया पूर्व ननु स्मरसि संप्रति / कियती प्राकृती लोके प्रभूणां भवति स्मृतिः त्वामत्र सुस्थितां ज्ञात्वा स्वामिभक्तिवशंवदः। अहं देवि ! समायातः तव सेवाविधित्सया ऋतुपर्णमनुज्ञाप्य स्वस्वामिन्या मनस्विनि !| अहं तव करिष्यामि सेवां सर्वाङ्गसुन्दरि! इत्थं वदति राजर्षों देवी दुर्वारविभ्रमा / विलोक्य केशिनीमुख्याः सखीः साश्रुरभाषत यदि च स्वकुटुम्बेन तव नास्ति प्रयोजनम् / कण्ठशोषफलस्तर्हि को विवादस्त्वया सह ? एष सम्यग् गृहीतोऽपि हस्ताग्रात् किं वियुज्यसे? / कुतो वा मन्दभाग्यानां गृहे चिन्तामणिः स्थिरः // 9 // त्वयि वज्रमये राजन्नसत्यं मयि तन्वति / उपायाः सकला जाता मदीयाः सर्वथा वृथा // 10 // इयन्तमवधिं यावजीवितास्मि त्वदाशया / अधुना जीवितव्येन मम नास्ति प्रयोजनम् यदि न त्वं नलो राजा कुजोऽसि परमार्थतः / न तद् विद्वन् मदीयेन हत्यापापेन लिप्यसे // 12 // = FICII II III-IIIsle FIFIEFINIIFIFIFIFI MISSIF Isle = | // 166 //