________________ षष्ठे स्कन्धे पञ्चमः सर्गः। नल शोधने सर्गः५ इत // 152 // समागमः॥ SIFII AIFI AIFIlATHII ANEFINITIANE अथ तौ दयितातौ कुब्जवेषधरो नलः / प्रसङ्गादिव चित्तस्थं प्राज्ञः प्रष्टुमुपाददे दिष्ट्या कविवरो दृष्ट्वा भवन्तौ मम संप्रति / फलं नयनयोर्जातं विश्रामो हृदयस्य च // 2 // अहं हि कुब्जको विप्रो ! विप्रयुक्तोऽस्मि दैवतः / शरीरमपरं राज्ञो नलस्य निषधेशितुः नलेन वसता पूर्व राज्यं द्यूतन हारितम् / राज्यभ्रष्टस्ततः सोऽहं विदेशपतितोऽधुना // 4 // दमयन्त्या समं देव्या विदेशप्रस्थितस्य च / अनास्तीति पुनस्तस्य न हि वा पि वर्त्तते तद् युवां कुण्डिनायातावहं पृच्छामि यत् किल / राजा स विजयी भीमस्तत्पुत्राश्च दमादयः // 6 // अन्यत् किं दमयन्ती सा देवी तत्रास्ति वान वा / तदा कूबरपाद्येऽपि नहि स्थितवती यतः // 7 // यच्च चित्रपटे वृत्तं नलस्यास्तीति जल्पतः / तद् नृपस्यापि किं वार्ता विदिता काचिदस्ति वाम् // 8 // तमित्थमथ जल्पन्तं द्विजवयौँ जजल्पतुः / दीर्घायुर्भव भद्रं ते हृष्टौ स्वस्त्वां विलोक्य च आकर्णय सकर्ण ! त्वं यत् पृच्छसि तदुत्तरम् / कुशलं भीमभूभर्तुः कुमारा जयिनश्च ते विरहव्याधिनाया रुदितोच्छूनचक्षुषः / देव्या दमस्वसुस्तत्र प्राप्ताया हायनं स्थितम् // 11 // वने सुप्ता परित्यक्ता राज्ञा रात्रौ नलेन यत् / तद् न जानाति सा देवी तं भर्तारं क्वचिद् गतम् // 12 // | // 15 //