________________ पञ्चमे स्कन्धे सर्गः:१३ // 124 // BIIIIIFILM III VIIIII-III B Isle आजन्मतोऽपि साम्राज्यं वनवासो ममाधुना / पूर्वमारण्यकी सा तु वनवासाद् न द्यते // 3 // अथवा मा स्म भूद् विश्वे कस्याश्चित् कष्टमीदृशम् / अहमेव यतः पापा पापानामेकभाजनम् // 4 // इति दुःखाग्निबाष्पौघं सृजन्तीं क्षितिभृद्भवम् / महामुनिपयोदस्तामभ्यवर्षद्वचोऽमृतैः आयाति यद् यदा यस्य दुःखं किमपि देहिनः / अपि खल्पमनल्पं वा तत् तदा तस्य दुस्सहम् // 6 // अपि नाम कलावत्या यदि तावत् तथा स्थितम् / त्वमित्थं गतमात्मानं नैकं शोचितुमर्हसि // 7 // शृणु ते कथयिष्यामि कलावत्याः कथामहम् / यामाकर्ण्य त्वमात्मानं दुःखितं नैव मन्यसे जावालपुरभूपालः शङ्खः सुखमहोदधिः / उदात्तधीरललितः कलावान् विनयी नयी रूपेण जितकामस्य विक्रमेण हतद्विषः / विद्वद्गोष्ट्या ययुस्तस्य निश्चिन्तस्यैव वासराः // 10 // अन्यदा पुरपर्यन्ते भ्रमतस्तस्य वाजिमिः / सैन्यस्येव रजोराशिः सनिःस्वानः पुरोऽभवत् // 11 // तद् विज्ञातुं तदादिष्टाः शीघ्रं विज्ञाय सादिनः / व्यजिज्ञपन् प्रसन्नाभिर्वाग्भिरञ्जलिमौलयः // 12 // सार्थः स्वपुरवास्तव्यो देव ! देशान्तरादयम् / आदाय सारभाण्डानि कुशलेन समागतः // 13 // इभ्यसाधुर्गजो नाम्ना सार्थनाथश्च पार्थिव ! / भवन्तं दृष्टुमभ्येति तदसावनुगृह्यताम् // 14 // इति श्रुत्वा तमाभाष्य नामग्रहणपूर्वकम् / सरस्तरुतलासीनस्तस्य सेवाक्षणं ददौ स महार्घ तदानीतं वस्तुजातमुपायनम् / स्वीकृत्य सुप्रसन्नः सन् तं निःशुल्कमचीकरत् // 16 // ISSINIST कदमयन्त्या आश्वासनाय भास्करशिष्येण कथिता कलावत्याः कथा // OISSIA II I // 124||