________________ // 26 // = // 27 // // 28 // = HIRISHISHI-IIIII-III आर्तत्राणव्यापृतः संप्रति द्राकं दुष्मन्तस्त्वां पातु धन्वी किलेति रे रे रक्षस्तिष्ठ तिष्ठ क यासि ! छमच्छन्नस्त्वं न मे गोचरोऽसि / किन्तु द्वेषिस्कन्धरक्तारुणानां प्रत्यक्षस्त्वं पत्रिणां मामकानाम् सभ्रूभङ्गं स ब्रुवाणस्तदित्थं चक्रे चापं सजगुञ्जद्गुणं च / त्यक्त्वा विप्रं मातलिस्तं च वेगात् प्रत्यक्षोऽभूत् सस्मितं भाषमाणः अयि सखे ! विमुखं कुरु साधकं त्वमहनेव हि मे भव सन्मुखः / न तु सुहृत्सु सतां श्रवणस्पृशो विनिपतन्ति दृशो न शिलीमुखाः किमपूर्वमेतदयि ! संविधानकं पुरुहूतसूत ! कुशलं कुतोऽधुना। इति तं जगाद परिरभ्य भूपतिः कटुभाषिणं स विनिवार्य माधवम् आयुष्मतः सकरुणस्य रसान्तरायक्रीडाकृता भव नरेन्द्र ! तदद्य सद्यः। आदेशतः शतमखस्य कुरुष्व यात्रां वैवाढयसीमनि निशाचरसदनाय इत्युक्त्वा तं मातलिः स्यन्दनाङ्के निःशङ्कानामेकधुर्य निवेश्य / चक्राघातक्षुण्णपर्यस्तजालः कण्ठाभोगन्यस्तमालश्चचाल इति श्रीमाणिक्यदेवमूरिकृते नलायने पश्चमे स्कन्धे एकादशः सर्गः // 11 // // 29 // IAHINIATIMEIN AMESH // 31 // // 32 //