SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ = = = = = = HI-IIAHINI AISHI IITE शकुन्तला तु पश्यन्ती पतिमास्थानसंस्थितम् / प्रौढप्रेमोपसृष्टाऽपि चुक्षुमे मनसा भृशम् तत्तस्या दक्षिणं चक्षुः स्पन्दमानं पुनः पुनः / चक्रे निरुद्धनिःश्वासनिष्पन्दमखिलं वपुः तेषां विरचिते राज्ञा कुशलप्रश्नकर्मणि / प्रणीतसमुदाचारः स्वस्थः शारिवोऽवदत् सर्वमव्याहतं राजन् ! वातं कुलपतेरपि / स त्वां तत्रभवानाह विजयाशीः पुरःसरम् स्वयं स्वीकृतवान् यत्वं धर्मरागिणि भूपतौ / स्थिते त्वयि वरे पुच्या कृतं निश्चिन्तया द्रुतम् इयं कुलपताका नः प्रासादस्त्वं च जङ्गमः। विधाय युवयोर्योगं युक्तकारी स्थितो विधिः कारा स्थिता विधिः // 8 // संप्रत्यापन्नसत्वेति तदियं प्रहिता त्वयि / ईदृशे न यतः कन्या पितुर्वेश्मनि शोभते इति तस्मिन् वदत्येव प्रत्युवाच द्रुतं नृपः / धिक् किमेतदुपन्यस्तमसमञ्जसमञ्जसा? // 10 // ब्रह्मन् ! सम्यग् भवान् वेत्ति कस्मै का प्रहिता किल / इमां न परिणीतामप्यहं जानामि कुत्रचित् // 11 // तत् कथं व्यर्थसम्बन्धो मयि स्थानस्थितेऽपि वः / युक्तैव घटते सत्सु माननाऽपि यतः सताम् // 12 // इत्याकर्ण्य नृपस्योक्तं सद्यः क्षोभं व्रजन्नपि / पुनः सधैर्यसंरम्भं प्रोचे शारद्वताग्रजः // 13 // प्रहिता त्वत्कृते राजन्नियं च त्वत्परिग्रहः / असत्यं न वयं ब्रूमः कोपेन प्रणयेन वा // 14 // सोमवंशविशुद्धस्य सत्यशौचान्वितस्य वा / विशेषेण विशांपत्युः पौरवस्य पुरस्तव // 15 // युग्मम्।। न तु स्मरति ते राजन्नवधानं विनाऽधुना / नृणां हि चेतनाचक्षुः प्रमादपटलावृतम् // 16 // FLAIIATIाबाजाIsle
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy