SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना भीनलायनस्य // 3 // बना ISIATIAHIBIEl " अन्तःपुरं पुरं वापि किं राज्ञां श्वापदैः क्ष(कृ)तम् / विनाऽपराधं तत्तेषां वधमाधाय का गतिः // " नलायने नवमे स्कन्धे सर्गे द्वितीये लोकः 6 / यशोधरचरित्रे च द्वितीयसर्गे श्लोकः 34 / 'नान्दोलिताः कपिकुलैरपि वृक्षशाखाः, दुःखेन वेणुभिरपि क्वणितं निरस्तम् / मुद्रा मुखे विघटिता न विहंगमाना-मनीकृतं न च तृणं हरिणागनाभिः॥' - नलायने पञ्चमे स्कन्धे प्रथम सर्गे श्लोकः 29 / यशोधरचरित्रे च त्रयोदशे सगें श्लोकः 78 / उपर्युक्ताः समश्लोकाः यादृशाः प्रमाणरूपा अस्माभिः प्राप्तास्तादृशा एव प्रदर्शिताः / अनेन कविवर्येण अन्येऽपि बहवो ग्रन्था निर्मितास्तेषां यानि नामान्यस्माभिः प्राप्तानि तानि चैतानि१-२ मुनि-मनोहरौ / ३-यशोधरचरित्रम् / -अनुभवसारविधिः / ५-पञ्चनाटकम् / ६-नलायनम् / उपरितनेषु प्रन्थेषु अस्माभिर्यशोधरचरित्रं नलायनं चोभौ ग्रन्थावुपलब्धौ मुद्रितौ च / अन्ये ग्रन्थाः कुत्रापि सन्ति न वा एतदविषये किमपि वक्तुं न शक्यते। किञ्च-एतानि नामानि अनेनैव प्रन्थकारेण अस्य नलायनस्य प्रत्येकस्कन्धस्यान्तिमे भागे उल्लिखितानि / BIAHI HI 4 जIAHI ST
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy