SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पञ्चमः स्कन्धः प्रथमः सर्गः। . I IIEI II AISHI WISIANS इतश्च तेन सा त्यक्ता यत्र रात्रौ विदर्भजा / तत्प्रभातेऽपि तत्याज निद्रा नैव सखीव ताम् // 1 // तदा काले च सा स्वमे विवेद यदहं किल / रसालशालमारूढा सरसं फलशालिनम् // 2 // अत्रान्तरे समागत्य निषण्णस्तस्य मूर्धनि / कपोतपतगः पापी शुष्कश्च स महातरुः अहं शिथिलसर्वाङ्गी तस्माच्च पतिता तरोः / इति स्वमं समासाद्य सद्यो निद्रां मुमोच सा // 4 // त्रिभिर्विशेषकम् / दुःस्वममिव विज्ञाय तत्प्रतीकारकासया / द्रष्टुं प्रियमुखाम्भोजं व्यापारितवती दृशौ न साऽपश्यत् प्रियं पार्वे वामे वा दक्षिणेऽपि वा / न मुनि न च पादान्ते न दूरं न च सनिधौ // 6 // किमेतदिति सत्रासं सा समुत्थाय विहला / विवेद च पति कूपे पतितं स्वमनाथवत् ततस्तत्कालमालम्ब्य साहसं चकिताऽपि सा / सरस्तरुलतागुल्मान् विचिनोति स्म सर्वतः // 8 // धीरनि तनिस्त्रिंशयष्टिवत्कम्प्रया तया / न सेहे सहसा वक्तुं तत्क्षणं क्षीणकण्ठया निलीनं परिहासाय सा तमाशय कुत्रचित् / आर्यपुत्रार्यपुत्रेति व्याजहार पदे पदे IIIIIIIIIISIO
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy