________________ चतुर्थे शोकप्रस्तो नलः॥ स्कन्धे सर्गः 12 // 96 // निश्चिन्ता दमयन्ति ! बन्धुसदनं लप्सीय शीघ्रं सुखं जल्पन्नित्थमसौ भृशं दश दिशः पश्यन् द्रुतं निर्ययौ // 38 // तस्य सत्क्रमविकारकारकैरुत्पथैरुभयथाऽपि गच्छतः। स्वैरपोरघनघर्घरारवा वायवः सपदि संमुखा ववुः // 39 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे एकादशः सर्गः // 11 // चतुर्थे स्कन्धे द्वादशः सर्गः / DISHI AISFlashllGA ISHI AISFI WIFII ISille ततो बहलधुलीकैरन्धकारितदिग्मुखैः / मरुद्भिर्जम्भितं ग्रीष्मवासरारम्भसम्भवैः प्रभञ्जनघनोद्भूतद्रुमसङ्घट्टसम्भवः / अथ तत्र समुत्तस्थौ दारुणः सहसा दवः // 2 // स्फुटद्वेणुत्रटत्कारैः सकरक्षोभमोटनम् / आचुक्रुशुरिव ज्वालाः कलत्रत्यागिनं नलम् विश्वस्तघातिनो राजः किल्विषस्येव कक्षया / तत्क्षणं कलुपीचक्रे कृष्णवर्मा स रोदसी // 4 // ताहग दवाग्निसंमदें तत्रातस्येव कस्यचित् / राजन् ! नल! नलेत्युच्चैरश्रूयन्त प्लुता गिरः // 5 // किमियं कर्णयोर्भ्रान्तिराहोस्विद् वक्ति कोऽपि किम् / चिन्तयन्निति वाचस्ताः शुश्राव स पुनः पुनः॥६॥ इहापरिचितस्थाने क एष मम सूचकः / किमस्य पुरुषस्यैवं ममाऽऽकारणकारणम् ? // 7 // तद् वेभि किमिदं तावदिति राजाऽप्यवीवदत् / कस्त्वं भोः!क किमर्थं मां भूयो भूयोऽभिभाषसे? // 8 // ISIAFII AIATISFII IIISIFI