________________ कर्माधीन चतुर्थे स्कन्धे मेव = सर्गः सर्वम् / // 37 // = // 88 // // 38 // = II IIIATIla TILAIII II हग्गोचरं चिरतरं क गवाक्ष ! यासि दोलानिवेश! विजयी भव सर्वकालम् / मा सारिके ! विलप संवृणु कीर ! वाष्पं क्रीडामयूर ! विपिनं प्रति गच्छ वत्स ! आपृच्छय सर्वमिति भीमसुतां प्रयान्ती लोकः समेत्य सकलो निषधाधिवासी / आगत्य साश्रुवदनः प्रणमन् पुरस्ताद् दूरीकृतः सपदि कूबरभृत्यवर्गः हा ! हन्त ! हन्त ! हतदैव! दुरन्ततां ते पृथ्वीभुजामपि यदेष दशाविवर्तः / धिग् धिग् विगीतमथवा भुवि राज्यलोभं ज्येष्ठे यदर्थमनुजोऽपि विमुक्तभक्तिः आत्मज्ञता तदखिला खलु कूवरस्य देव्या नलानुगमनं स न यद् रुरोध / नो चेद् नृपं तमशपिष्यत भीमपुत्री भीमोऽथवा सपदि राष्ट्रमभक्ष्यदेतत् सत्यव्रतः किमपरं नल एव राजा यः कूबरस्य कितवस्य ददाति राज्यम् / युद्धेन कस्तृणमपि क्षमतेऽस्य नेतुं यः क्रौञ्चकर्णमपि तं हतवान् किलैक: इत्थं मिथः सकलपौरवचांसि भृण्वन् प्राप्तः पुरीपरिसरे सरसीतटस्थम् / स्तम्मं महान्तमवलोक्य नलस्तदानीं दध्यौ महोदधिरिवाकलनीयरूपः यत्रागतः परिवृतः पृतनासहजैरुद्धयमानचमरो विधृतातपत्रः / तत्रैव भीमसुतया सह राजमार्गे पश्यन्ति मां चरणचारिणमत्र लोकाः = = // 41 // // 42 // = / / 88 //