SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ // 26 // // 27 // // 28 // युक्तायुक्तं न जानन्ति स्वभावेनैव सेवकाः / परमार्थः परं तेषां प्रभुचित्तानुवर्तनम् अवादिषमिदं सर्व तदहं कलिगुह्यकः / इत्युक्त्वा दर्शयामास कलिमाया तमग्रतः अद्रष्टव्यमुखं मत्वा ततस्तं त्रिदिवौकसः / दक्षिणेन सुवर्णादिं गन्तुमारेभिरे दिवि मार्गान्तरेण व्रजतः समग्रान् विज्ञाय देवान् प्रणयीव गाढम् / प्रतीक्षतां वासव! वासवेति जल्पन स तिर्यग्वलितुं दधावे इतिश्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थे स्कन्धे प्रथमः सर्गः // 1 // // 29 // || - III Asia II AISHI WEETING चतुर्थे स्कन्धे द्वितीयः सर्गः। मत्तमातङ्गरूपं तं कृष्णं किल्विषिकाधिपम् / कलिं विलोकयन्तोऽपि न देवाः पूर्वमब्रुवन् पश्यन्नपि पुरः सर्वान् सुरूपान् सुरसत्तमान् / आत्मानं न कलिर्मेने मनागपि स दुर्भगम् उपेत्य निकटं तेषामदत्त प्रणयोऽपि सः। सौजन्यवानिव स्वैरं जगाद मुदितो भृशम् दिल्या विजयतां वज्री कृशानो ! कुशलं तव / वैवस्वत ! विशल्योऽसि वरुण! प्रणयीभवन् ! यत् सत्यमभवद् भाव्यं भवन्तो मिलिताः पथि / शकुनं शकुनेभ्योऽपि दर्शनं सुहृदा यतः // 4 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy