SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ II-III AIATSII-III NIHABAR चतुर्थे स्कन्धे। प्रथमः सर्गः। वैदर्भीनलसंबद्धः कथालापैः परस्परम् / न लयमानमध्वानं जानन्ति स्म महाभुजाः इति तैव्योंम्नि गच्छद्भिः पुरः सन्मुखमापतन् / स्वर्गगङ्गातटं प्राप्तैर्जनौषः कश्चिदैक्ष्यत तेषु केपि खरारूढाः केचिद् महिपवाहनाः / उत्कूदनपराः केचित् केचित् स्खलितचारिणः नृत्यन्तश्च हसन्तश्च रुदन्तश्च निरर्थकम् / विडम्बयन्तः स्वमपि पश्यन्तस्तृणवद् जगत् सप्तव्यसनिनः सर्वे पञ्चपातकिनोऽखिलाः / कृतघ्नाश्चैव सकलाः समस्ता आततायिनः अश्रूयन्त च कस्यापि तत्र वाक्यानि बन्दिनः। अधिकृत्य जगल्लोकं शिक्षापूर्व प्रजल्पतः रे रे / त्यजत दुर्बोधं कुरुध्वं कामशासनम् / अनित्यस्य शरीरस्य फलं नयत बालिशाः! नास्त्येव पुनरावृत्तिः प्राणिनां मृत्युतः परम् / पयोनिधौ निमग्नानां ग्राव्णामुन्मजनं कुतः केयं वर्णक्रमव्यक्तिः स्वजातीयेषु जन्तुषु / सर्वसाधारण तावद् भास्करः कुरुते महः इह पापं च पुण्यं च मनसो विभ्रमावुभौ / शङ्का विषसमा नित्यं न हि धीरं विलुम्पति स्वाध्यायध्यानकृच्छाणि भिक्षाभ्रमणमेव च / प्रायः पौरुषहीनानां जीवनोपायकौशलम् // 7 // // 8 // // 10 // // 11 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy