________________ तृतीयस्कन्धे सर्गः१ भीमभूपतिनाव| यम्वरा प्रेषिताः 5 सचिवाः॥ // 54 // FIIIIIIIIIIIIIII तृतीयः स्कन्धः। तृतीये स्वयंवरस्कन्धे प्रथमः सर्गः। ततः कृत्वा तमावेशं वैदर्भीनलयोस्तयोः / ययौ कुर्कुटशब्देन शाकिनीव विभावरी // 1 // क्रथकैशिकनाथस्य शासनेन महीपतीन् / प्रावन्त समाह्वातुं सचिवाः शुचिवादिनः // 2 // शचीपलिविधानस्य मेरीमाङ्कारमिश्रिताः। विष्वग् जजृम्भिरे वारनारीमङ्गलगीतयः // 3 // इत्थं दिनमुखे तस्मिन् देवदूत्यकदर्थितम् / प्राबोधयन् प्रसुप्तं तं नलं वैतालिका नृपम् // 4 // सारस्वतमयमूर्तिधर्मात्मा जगति विजयते वीरः। अपि दानैरपि कीर्तिभिराशाः परिपूरयन् सकलाः॥ 5 // कलाकेलिकल्लोलिनीलब्धपारः कुले वीरसेनस्य धर्मावतारः। जयश्रीवधूकण्ठशृङ्गारहारः सदा नैषध ! त्वं सदाचारसारः धीरपि कुशाग्रनिशिताऽसितप्रभं करतले च करवालम् / भरतावनीशकुलकमलिनी दिनकरस्य पृथुयशसः // 7 // यशोराशिभिर्निर्जितक्षीरनीरः परानीकिनीमेघमालासमीरः कथं वर्ण्यसे वीरकोटीरहीरः 1 क्षितौ नैषध ! त्वं हि गम्भीरधीरः FISIIIIIII-IIIIIII IISEle // 54 //