________________ द्वितीय // 15 // स्कन्धे सर्गः३ सकलकलशलीलां प्राप कुत्रापि चन्द्रः स्फुटकुसुमसमत्वं क्वापि नक्षत्रवृन्दम् / कचन जवनिकात्वं वारिदा विद्युतश्च ध्वजपटपटिमानं देवयानेषु तेषु // 46 // स्वःसिन्धुसीकरकरम्बितगन्धवाहं भारण्डचण्डरवमण्डितदिग्विभागम् / उत्तीर्य दुस्तरतरं तरसा नभस्ते भेजुधरावलयसन्निधिमिन्द्रमुख्याः // 47 // इतिश्री माणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे द्वितीयः सर्गः // 2 // दमयन्त्या स्वयम्वर काले इन्द्रादीनां पृथ्वीपीठगमनम् // // 33 // ||FI II III-IIIIIII द्वितीये दूत्यस्कन्धे तृतीयः सर्गः / o अत्रान्तरे तिरस्कुर्वन् लक्ष्मी मकरलक्ष्मणः आसीद् रेवातटं पश्यन् श्रुतशीलान्वितो नलः // 1 // तमालतालहिन्तालशालमालूरमालिताः / कदम्बनिम्बजम्बीरजम्बूस्तम्बकरम्बिताः // 2 // करीरकीरवानीरकरवीरविराजिताः। केतकीकुन्दवासन्तीशतपत्री पवित्रिताः // 3 // चूतचम्पककिङ्किल्लिमल्लिकाबकुलाकुलाः / तस्य प्रविविशुश्चित्तं विचित्रा वनराजयः // 4 // [त्रिभिर्वितस्य विन्ध्याचलोद्देशदर्शनानन्दकन्दलम् / सिषेच वाक्सुधासारैस्ततः सचिववारिदः // 5 // शेषकम् ] सरलसरलशाखासक्तशाखामृगौधा हरिणहरिणियूथा यूथिकाजालभाजः / IFILAMSEII III AMISSI // 33 //