SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे त्यागाष्टकम् SCHOOMAGICHRONGEaCame रागं कुरु / हे मातः ! त्वं कथं पुनःपुनर्विलपसि ? तव पुत्रः क्व कस्मिन्थले शरीरे वा जीवे वा? द्वावपि तव पुरो वर्तते, न युक्तं रोदनम्" ततो जनकोऽवदत्-"नोऽत्र रागोऽस्माकं प्रसरति / " सुरोऽवदत्-"तर्हि स्वार्थ एव सर्वेष्विष्टः, परं परमार्थस्तु न तदा सर्वमनित्यमेव, व्यलीकमेव, सम्बन्धव्यूहमवस्तु, युवां कथं मुझथः ? सर्वो लौकिकसम्बन्धो भ्रमरूप एव, यतः युष्माकं सङ्गमोऽनादि-बन्धवोऽनियतात्मनाम् / ध्रुवैकरूपान् शीलादि-बन्धून्नित्यं समाश्रये // 1 // हे बन्धवः ! युष्माकं सम्बन्धोऽनादिः असंयतात्मनां भवति / अधुना ध्रुवैकरूपान् शीलादिबन्धून शीलशमदमादिबन्धून् हितकारकात् नित्यं सदा समाश्रये ( अहम् - कान्ता मे समतैवैका, ज्ञातयो मे समक्रियाः / बाह्यवर्गमिति त्यक्त्वा, धर्मसन्न्यासवान् भवेत् // 2 // औदयिकसम्पदं विहाय क्षयोपशमजां स्वीयां साधनसम्पदं प्राप्नोति, तदनु क्षायिकाभेदरत्नत्रयीरूपां प्राप्नोति" इत्यादिना प्रबुद्ध सर्व कुटुम्ब श्रीमत्संभवजिनपावें प्रव्रज्यां प्रतिपन्नं महानन्दमसाधयत् / सम्यक्तिरोभूतनिजात्मधर्म, आविर्भवत्येव प्रशस्तयोगात् / त्यागोऽप्रशस्तस्य सुभानुवच्च, शीघ्रं विधेयोऽपररागकस्य 1 // // इति अष्टमे त्यागाष्टके सुभानुकुमारकथानकम् // 8 // HomaonarrazeGOODCODEDies IS ज्ञानाचारादयोऽपीष्टाः, शुद्धस्वस्वपदावधि / निर्विकल्पे पुनस्त्यागे, न विकल्पो नवा क्रिया // 6 // व्याख्या-स्वस्वशुद्धपदप्राप्तिपर्यन्तं ज्ञानाचारादयोऽप्यभीष्टाः सन्ति ज्ञानाचारं प्रति एवं वक्तव्यं यत्-यावत्तवप्रसादेन // 48 // तव शुद्धं पदं केवलज्ञानं न समेयात् तावत् मे तव सेवा करणीयाऽस्ति, इत्थं दर्शनाचारस्य सेवा-क्षायिकसम्यक्त्वरूपशुद्धपद
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy