________________ ज्ञानसारे पूजाष्टकम् Savaoraa MINISCEDpare नवविधब्रह्मचर्याङ्गे शुद्धमात्मदेवं पूजयेति रीत्या भावपूजा स्यात् // 1-2 // हे उत्तम ! नवप्रकारब्रह्मचर्यरूपनवाङ्गधारिदेवं शुद्धमात्मानमनन्तज्ञानादिपर्यायमर्चय पूजां कुरु / कीदृशो भूत्वा ? दया द्रव्यभावस्वपरप्राणरक्षणरूपा सेवाम्भो जलं तेन कृतं स्नानं पावित्र्य येन सः, सन्तोषः पुद्गलपिपासाऽभावः तदेव शुभवस्त्रं तद्धारकः, विवेकः स्वपरविभजनरूपज्ञानं तदेव तिलकं तेन शोभमानः, पुनर्भावना अर्हद्गुणैकत्वरूपा तया पावनः पवित्र आशयोऽभिप्रायो यस्य सः, पुनर्भक्तिः आराधना श्रद्धा च प्रीतिः 'एस अट्ठे परम?' एवं ते एव घुसृर्ण चन्दनं तेनोन्मिश्रं पाटीरज कुङ्कुमं तस्य द्रवैः रसैः स्वात्मदेवमर्चयेति / . क्षमापुष्पस्रजं धर्म-युग्मक्षौमद्वयं तथा / ध्यानाभरणसारं च, तदङ्गे विनिवेशय // 3 // ___व्याख्या-तच्छुद्धात्मनोऽङ्ग क्षमारूपपुष्पाणां मालां व्यवहारनिश्चयाभ्यां द्विविधधर्मरूपोत्तमवस्त्रयुगलं तथा ध्यानरूपोतमाभरणं च मानसमावेन परिधापय // 3 // | मदस्थानभिदा त्यागै-लिखाग्रे चाष्टमङ्गलम् / ज्ञानाग्नौ शुभसंकल्प-काकतुण्डं च धूपय // 4 // व्याख्या-अष्टमदस्थानस्य त्यागस्य प्रकारैः आत्मनोऽग्रेऽष्टमंगलं लिख, ज्ञानाग्नौ च शुभसंकल्परूपकृष्णागुरोः धूपं कुरु अतः शुद्धोपयोगरूपनिर्विकल्पसमाधिरूपा पूजा भवेत् // 4 // प्राग्धर्मलवणोत्तरं, धर्मसन्न्यासवह्निना / कुर्वन् पूरय सामर्थ्य-राजन्नीराजनाविधिम् // 5 // व्याख्या-धर्मसन्न्यासरूपाग्निना प्राग्धर्मरूपम्-औदयिकक्षायोपशमिकधर्मरूपं लवणमुत्तारयन् सामर्थ्ययोगरूपदीप्यमाननीराजनायाः विधिं पूरय // 5 // saraie // 142 //