________________ ज्ञानसारे योगाष्टकम् व्याख्या-अत्रालम्बनं रूपि अरूपि चेति द्विविधं ज्ञेयम् , अरूपिगुणः सिद्धस्वरूपस्य तादात्म्येन योगः स चेषदालम्बनत्वात् उत्कृष्टः अनालम्बनयोगः कथ्यते, तथा चोक्तम् तत्राप्रतिष्ठितः खलु यतः प्रवृत्तश्च तत्त्वतस्तत्र / सर्वोत्तमानुजः खलु, तेनालम्बनो गीतः // 1 // अर्थ-यावत्परमात्मनो दर्शनं स्याचावत्परम आत्मतत्त्वासंगेच्छारूपानालम्बनयोगोऽस्ति, स परमात्मतत्त्वे स्थिरता| रहितोऽस्ति, यस्माद ध्यानद्वारा परमात्मदर्शने प्रवृत्तिः तस्माद् योगनिरोधरूपसर्वोत्तमयोगस्य पूर्वभावी अनालम्बनयोगः कथितः / स निरालम्बनयोगः धारावाही प्रशान्तवाहितारल्यं चित्तमस्ति स चोद्योगं विना स्मरणापेक्षया स्वभावादेव सदृशधारया प्रवर्तते इति ज्ञेयम् // 6 // प्रीतिभक्तिवचोऽसंगैः, स्थानाद्यपि चतुर्विधम् / तस्मादयोगयोगाप्ते-र्मोक्षयोगः क्रमाद्भवेत् // 7 // ___ व्याख्या-प्रीतिः, भक्तिः, वचः, असंगानुष्ठानमिति भेदेन स्थानादयो विंशतियोंगा अपि चतुर्विधाः सन्ति, तत्सकलयोगात् अयोगनाम्ना शैलेशीयोगप्राप्त्या क्रमशो मोक्षयोगस्य प्राप्तिर्भवति / उक्तं च यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः। शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् // 1 // गौरवविशेषयोगा-बुद्धिमतो यद्विशुद्धतरयोगम् / क्रिययेतरतुल्यमपि, ज्ञेयं तद्भक्त्यनुष्ठानम् // 2 // अत्यन्तवलमा खलु, पत्नी तद्वद्धिता च जननीति / तुल्यमपि कृत्यमनयो-तिं स्यात्प्रोतिभक्तिगतम् // 3 // 15 // 5 // DEAADDAEAC ACACACACDCDEADIAC | // 133 //