________________ सानसारे परिप्रहाष्टकम् Хараалаа асаас वर्त्तते तस्य मुनेः चरणकमलं त्रयो लोकाः सेवन्ते // 3 // चित्तेऽन्तर्ग्रन्थगहने, बहिनिर्ग्रन्थता वृथा / त्यागात्कञ्चकमात्रस्य, भुजगो न हि निर्विषः // 4 // व्याख्या-अन्तरङ्गपरिग्रहेण यदि चित्तं व्याकुलं स्यात् तदा बाह्यनिर्ग्रन्थता निष्फला, यतो हि सर्पः कञ्चकमात्रत्यागात् विषरहितो न भवति // 4 // त्यक्ते परिग्रहे साधोः, प्रयाति सकल रजः। पालित्यागे क्षणादेव, सरसः सलिलं यथा // 5 // __ व्याख्या - यथा पालिनाशादतिशीघ्रं सरोवरस्य कृत्स्नं जलं निःसृतं भवति तथा परिग्रहत्यागात् मुनेः सर्व पापं | | निर्गतं भवति // 5 // त्यक्तपुत्रकलत्रस्य, मूर्छामुक्तस्य योगिनः / चिन्मात्रप्रतिबद्धस्य, का पुद्गलनियन्त्रणा // 6 // ___ व्याख्या-त्यक्तं पुत्रकलत्रादिकं सर्वविधबन्धनं येनैतादृशस्य मूर्छारहितस्य ज्ञानमात्रासक्तस्य च योगिनः किं पुद्गलस्य बन्धनं भवेत्, अर्थान्नैव भवेत् // 6 // चिन्मात्रदीपको गच्छेन्, निर्वातस्थानसंनिभैः। निष्परिग्रहतास्थैर्य, धर्मोपकरणैरपि // 7 // ___ व्याख्या-ज्ञानमात्रपरिणामवतः साधोः वस्त्रपात्रादिचतुर्दशधर्मोपकरणानां धारणं नैव घटते यतो हि तेषां ग्रहणधारणे मृच्छा विना न भवतः / युक्ताहारादिकं तु अनाहारभावनारूपं ज्ञानसाधनमस्ति तत्सम्भवति साधूनामिति दिगम्बरा वदन्ति, तेषां acicacaaaaasax // 121 //