________________ तत्वष्ट्य सानसारे acaalaimerciaeo // इति एकोनविंशतितमे तत्वदृष्टयष्टके आचार्यकथानकम् // 19 // बाह्यदृष्टेः सुधासार-घटिता भाति सुन्दरी / तत्त्वदृष्टेस्तु साक्षात्सा, विणमूत्रपिठरोदरी // 4 // ____ व्याख्या-बाह्यदृष्टेः पुंसः अमृतसारेण निर्मिता स्त्री भाति, तत्वदृष्टेः पुरुषस्य तु सा खी साक्षात् विष्ठा-मूत्रस्य माण्ड इव जठरवती भासते // 4 // लावण्यलहरीपुण्यं, वपुः पश्यति,बाह्यदृक् / तत्त्वदृष्टिः श्वकाकानां, भक्ष्यं कृमिकुलाकुलम् // 5 // __व्याख्या-बाह्यदृष्टिस्तु सौन्दर्यतरंगेण पवित्रितं शरीरं विलोकते, तत्वदृष्टिस्तु काककुकुरादीनां भक्ष्यं तथा कृमिसमूहव्याप्तं तदालोकते // 5 // | गजाश्वर्भूपभवन, विस्मयाय बहिर्दशः / तत्राश्वेभवनात्कोऽपि, भेदस्तत्त्वदृशस्तु न // 6 // व्याख्या-बाबदृष्टेर्जनस्य गजाश्वसहितराजभवनम् आश्चर्याय भवति, किन्तु तदेव राजमन्दिरं तत्वदृष्टेः गजाश्ववनाद्विमन लगति, न खलु तत्वदृष्टेः कुत्रापि आश्चर्य भासते, स तु पुद्गलानां विलासं मनुते // 6 // भस्मना केशलोचेन, वपु तमलेन वा / महान्तं बाह्यदृग्वेत्ति, चित्साम्राज्येन तत्वविद् // 7 // व्याख्या-बाह्यदृष्टिविभूतिविलेपनात् , कचलुचनात्, मलधारणाद्वा अयमात्मा महान् अस्ति इत्येवं मन्यते, किन्तु तत्वरष्टिः शानस्य प्रभुतया महान्तं जानाति // 7 // GOODCHOOTamaAGOGICA // 16 //