________________ आवश्यकनियुक्तेरव प्रत्याख्यानभेदपरिमाण प्रतिक्रमामि चूर्णिः // 449 // व्याख्या च नि० गा० एकैकं करणत्रिकेणेति नव भेदाः, कालत्रयसम्बन्धाच्च सप्तविंशतिः / इदं च प्रत्याख्यानभेदजालं समितिगुप्तिषु सतीषु स्यात् / इहैव प्रायः सूत्रस्पर्शिकनियुक्तिवक्तव्यताया उक्तत्वान्मध्यग्रहणे चाद्यन्तयोरप्याक्षेपात् इदमाह 'सुत्ते त्यादि // 1058 // सूत्र एवातीतादिकालग्रहणमुक्तमित्याह सामाइअं करेमी पञ्चक्खामी पडिकमामित्ति / पच्चुप्पन्नमणागयअईअकालाण गहणं तु // 1059 // 3/3/3/2/2/2/1/1/1 | कृतकारितादयः सामायिकं करोमि तथा प्रत्याख्यामि सावा योगं, तथा प्रतिक्रमामीति प्राकृतस्यति यथा३२०/३/२/१/३/२/१ | मनःप्रभृतयः सङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणं // 1059 // तस्य भदंत! प्रतिक्रमामीत्ये१/३/३/३/९/९/३/९/९ | लब्धफलमेतत् तदाहतिविहेणंति न जुत्तं पडिपयविहिणा समाहिअं जेण / अत्थविगप्पणयाए गुणभावणयत्ति को दोसो॥१०६०॥ त्रिविधं त्रिविधेनेत्यत्र त्रिविधेनेत्ययुक्तं, प्रतिपदविधिना मनसा वाचा कायेनेति, समाहितं-अभिहितं येन-यस्मात् , अत्रोच्यते-अर्थविकल्पनया गुणभावनयेति वा को दोषः ?, अयमर्थः अर्थविकल्पसंग्रहार्थ न पुनरुक्तं, अथवा गुणभावना पुनः पुनरभिधानात्स्यात्, अथवा मनसा वाचा कायेनेत्युक्ते प्रतिपदं न करोमि न कारयामि नानुजानामीति यथा. सत्यमनिष्टं मा प्रापदिति त्रिविधेनैकैकमुच्यते, त्रिविधमित्यत्रापि प्रायो अयमेव परिहारः // 1060 // प्रतिक्रमामीत्यत्र प्रतिक्रमण मिथ्यादुष्कृतमुच्यते, तच्च द्विधा-द्रव्यतो भावतश्चेति आह दव्वंमि निण्हगाई कुलालमिच्छति तत्थुदाहरणं / भावंमि तदुवउत्तो मिआवई तत्थुदाहरणं // 1061 // 1061. | // 449 //