________________ आवश्यकनिर्युक्तेरव चूर्णिः // 448 // नामं 1 ठवणा 2 दविए 3 ओहे 4 भव 5 तब्भवे अ६ भोगे अ७। संजम 8 जस 9 कित्तीजीविअंच 10 तं भण्णई दसहा // 1056 // दव्वे सच्चित्ताई 3 आउअसद्दव्वया भवे ओहे 4 / नेरइयाईण भवे 5 तन्भव तत्थेव उववत्ती 6 // 189 // भा० इह कारणे कार्योपचारात् येन द्रव्येण सचित्तादिना पुत्रादिरूपेण यस्य यथा जीवितमायत्तं तस्य तथा तद्रव्यजीवितं, द्विपदादिद्रव्यस्य चाऽन्ये, आयुरिति प्रदेशकर्म तद्रव्यसहचरितं जीवस्य प्राणधारणं संसारे भवेदोघद्वारे ओघजीवितं सामान्यजीवितमित्यर्थः, इदं चाङ्गीकृत्य यदि परं सिद्धा मृताः, न पुनरन्ये कदाचन / नारकादीनां भवद्वारे स्वभवे स्थितिर्भवजीवितं, तद्भवजीवितं तत्रैवोपपत्तिः, इदं च औदारिकशरीरिणामेव // 189 // भोगंमिचकिमाई 7, संजमजीअंतुसंजयजणस्स८ / जस 9 कित्तीअ भगवओ१० संजमनरजीव अहिगारो 1057 भोगजीवितं चक्रवर्त्यादीनां, दानपुण्यफला कीर्तिः, पराक्रमकृतं यशः, संयमनरजीवितेनेहाधिकारः // 1057 // सर्व सावद्ययोगं प्रत्याख्यामीत्यत्र प्रत्याख्यानं गृहस्थान साधूंश्चाधिकृत्य भेदपरिमाणत आह सीआलं भंगसयं तिविहं तिविहेण समिइगुत्तीहिं / सुत्तप्फासिअनिनुत्तिवित्थरत्थो गओ एवं // 1058 // एकोनपश्चाशद्भङ्गाः कालत्रयगुणिताः सप्तचत्वारिंशदधिकशतं, तत्रातीतस्य प्रतिक्रमणं प्रत्युत्पन्नस्य संवरण | प्रत्याख्यानं चानागतस्य / उक्ता गृहस्थप्रत्याख्यानभेदाः / त्रिविधं त्रिविधेनेत्यनेन सर्वसावद्ययोगप्रत्याख्यानादर्थतः सप्तविंशतिः साधुप्रत्याख्यानभेदाः, ते चैवं सावद्ययोगं सर्व स्वयं न करोति न कारयति कुर्वन्तमप्यन्यं न अनुजानाति, दशधा जीवितं प्रत्याख्यानभेदपरिमाणं च नि० गा० | 10571058 // 448 //