________________ आवश्यकनियुक्तेरव- चूर्णिः ***** // 400 // 'विपुला' एकपदेनानेकपदानुसारिणी 'विमा संशयादिरहिता 'सूक्ष्मा' सूक्ष्मार्थगोचरा यस्यैवम्भूता बुद्धिः स| बुद्धिसिद्धः॥९३७ // उप्पतिआ वेणईआ कंमिआ पारिणामिआ। बद्धी चउब्विहा वुत्ता पंचमा नोवलब्भए // 938 // उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, क्षयोपशमः प्रयोजनं त्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते // 938 // एतल्लक्षणमाहपुव्वमदिट्ठमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था / अवाहयफलजोगिणि बुद्धी उप्पत्तिआ नाम // 939 // पूर्वमदृष्टोऽन्यतश्चाश्रुतो अवेदितो मनसाप्यनालोचितः, तस्मिन्नेव क्षणे विशुद्धो-यथावस्थितो गृहीतो अर्थो यया सा तथा, अव्याहतफलेन योगो यस्याः सा तथा // 939 // अस्या उदाहरणान्याहभरहसिल पर्णिअ रुखे खुड्डगं पडे सरंड काग उच्चारे / गर्य घयण गोल खंभे खुडुंग मॅग्गित्थि पैइ पुत्ते // 940 // उज्जयिन्या आसन्नग्रामे एको भरतो नटस्तत्सुतो रोहकः, स पित्रा सह पूर्या गत्वा प्रत्यावृत्तः, नदीपुलिने तल्लिखितपुरीमध्ये गच्छन् अश्वारूढो नृपो वारितश्चमत्कृतः। तस्य बुद्धिपरीक्षार्थ शिलायाः प्रासादः 1 मेषस्ताहक्तनुः 2 अन्यं विना कुर्कुटयोधनं 3, तिलैः समं तैलं देयं 4, वालुकावरहः (दवरकः) 5, जीर्णहस्तिनः प्रतिदिन शुद्धिः कथ्या न मृतिः 6, कूपानयनं 7, पूर्वारामः प्रतीच्या कार्यः 8 अग्निं विना क्षरेयीपचनं 9, यथाक्रमं अधः खनित्वा स्तम्भदानेन 1 चित्रकदर्शनेन 2 आदर्शेन 3 आदर्शमानेन 4 वालुकावरह (कादवरक) प्रतिच्छन्दानयनेन 5 अचरणाचलायुक्त्या 6 पुरकूपानयनेन 7 पूर्वस्यां औत्पत्तिक्यादि बुद्धयः औत्पत्तिकी बुद्धेरुदाहर| णानि च नि० गा० 938-940 * S // 40 // AKARK