________________ आवश्यकनियुक्तेरव चूर्णिः // 383 // IN सम्मत्तदेसविरया पडिवन्ना संपई असंखेजा। संखेजा य चरित्ते तीसुवि पडिया अणंतगुणा // 851 // सुयपडिवण्णा संपइ पयरस्स असंखभागमेत्ता उ। सेसा संसारत्था सुयपरिवडिया हु ते सव्वे // 852 // सम्यग्देशविरताः प्रतिपन्नाः वर्तमानसमयेऽसङ्खयेया उत्कृष्टतो जघन्यतश्च, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एते प्रतिपद्यमानकेभ्योऽसङ्ग्येयगुणाः। अत्रान्तरे द्वितीयगाथापूर्वार्द्ध व्याख्येयं, तत्राक्षरात्मकाऽविशिष्टश्रुतप्रतिपन्नाः साम्प्रतं प्रतरा:सङ्ख्येयभागमात्राः, सङ्ख्येयाश्चारित्रे प्राक्प्रतिपन्नाः, 'त्रिभ्योऽपि' चरणदेशचरणसम्यक्त्वेभ्यः पतिता अनन्तगुणाः प्रतिपद्यमानप्रतिपन्नेभ्यः, तत्र चरणपतिता अनन्ताः, तदसङ्ख्येयगुणास्तु देशविरतिप्रतिपतिताः, तदसङ्ख्येयगुणाश्च सम्यक्त्वप्रतिपतिताः। अत्रान्तरे द्वितीयगाथार्च, शेषाः संसारस्थाः श्रुतप्रतिपतितास्ते सर्वे सम्यक्त्वप्रतिपतितेभ्योऽनन्तगुणाः // 852 // अन्तरमाहकालमणंतं च सुए अद्धापरियडओ उ देसूणो / आसायणबहुलाणं उक्कोसं अंतरं होई // 853 // अक्षरात्मकाऽविशिष्टश्रुतस्यान्तरं जघन्यमन्तर्मुहूर्त, उत्कृष्टं त्वेकजीवं प्रति कालोऽनन्त एव, तथा सम्यक्त्वादिषु जघन्यमन्तर्मुहूर्त, उत्कृष्टमपार्द्धपुद्गलपरावर्त एव देशोनः // 853 // अविरहितद्वारमाह सम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ। अट्ठसमया चरित्ते सव्वेसु जहन्न दो समया // 854 // ___'सम्यक्त्वश्रुतागारिणां' सम्यक्त्वश्रुतदेशविरतीनां नैरन्तर्येण प्रतिपत्तिकालः आवलिकाऽसङ्ख्येयभागमात्राः समयाः, तथाष्टौ समयाश्चरित्रे, 'सर्वेषु' सम्यक्त्वादिषु जघन्यतो द्वौ समयौ // 854 // अस्य प्रतिपक्षत्वादनुद्दिष्टोऽपि विरहकाल उच्यते सुयसम्म सत्तयं खलु विरयाविरईय बारसगं / विरईए पन्नरसगं विरहियकालो अहोरत्ता // 855 // प्राक्प्रतिपन्नाः प्रतिपतिताश्च अन्तरअविरहितविरहितकालानि द्वाराणि नि० गा० 851-855 M // 383 //