________________ आवश्यकनिर्युक्तेरव चूर्णिः समवसरण(वक्तव्यता नि० गा० 546-550 // 298 // वेंटहाई सुरभि जलथलयं दिव्वकुसुमणीहारिं / पइरंति समंतेण दसद्धवणं कुसुमवासं // 546 // वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिहरि प्रकिरन्ति समन्ततो दशार्द्धवर्ण कुसुमवर्ष, अत्र निर्दारि-प्रबलो गन्धप्रसरः॥ 546 // मणिकणगरयणचित्ते चउद्दिसिं तोरणे विउव्वंति / सच्छत्तसालभंजियमयरद्धयचिंधसंठाणे // 547 // ... छत्रं प्रतीतं, सालभञ्जिकाः-स्तम्भपुत्तलिकाः, मकर इति मकरमुखोपलक्षणं, ध्वजाः प्रतीताः, चिहानि-स्वस्तिकादीनि / संस्थानं-तद्रचनाविशेष एव, सच्छोभनानि छत्रसालभञ्जिकामकरध्वजचिह्नसंस्थानानि येषु तोरणेषु तानि तथा, एतानि व्यन्तराः कुर्वन्ति // 547 // तिनि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा। मणिकंचणकविसीसगविभूसिए ते विउव्वेति // 548 // अभंतर मज्झ बहिं विमाणजोईभवणाहिवकया उ। पागारा तिणि भवे रयणे कणगे य रयए य॥५४९॥ अभ्यन्तरे मध्ये बहिः, रत्नेषु भवो रालः, एवं काञ्चनो राजतः // 548-549 // मणिरयणहेमयाविय कविसीसा सव्वरयणिया दारा / सव्वरयणामय चिय पडागधयतोरणविचित्ता॥५५०॥ मणिरत्नहेममयान्यपि च, तत्र पञ्चवर्णमणिमयानि कपिशीर्षकाण्याचे प्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतयः / तथा सर्वरत्नमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः॥५५०॥ 3888SEXXXXXXXXXXXX