________________ आवश्यकनिर्युक्तेरव चूर्णिः प्रकारान्तरेण धर्मो| पायद्वारं दीक्षापर्या| यद्वारं च | नि० गा. 271-273 // 212 // PREEEEEKKK वस्तुदेशकत्वात् // 270 // अथ प्रकारान्तरेण धर्मोपायमुपदर्शयन्नाह सासाइयाइया वा वयजीवणिकायभावणा पढमं / एसो धम्मोवाओ, जिणेहि सव्वेहि उवइहो // 271 // वाशब्दः प्रकारान्तरद्योतनार्थः, सामायिकमादिर्यासां ताः सामायिकादिकाः सामायिकपूर्विका इत्यर्थः, व्रतानि प्राणातिपातविरमणादीनि, जीवनिकायाः पृथिव्यादयः, भावनाः पञ्चविंशतिः अनित्यत्वादिविषया द्वादश वा एषां द्वन्द्वस्ततः सामायिकाङ्गीकारपूर्विकाः सत्यो व्रतजीवनिकायभावना इत्येष धर्मोपायो जिनैः सर्वैरुपदिष्ट इति सम्बन्धः, कदा?, प्रथम आद्यसमवसरणवर्तनावसर एवेत्यर्थः, उत्तरकालं जिनकल्पपरिहारविशुद्धिकभिक्षुप्रतिमाभिग्रहादिभेदभिन्नोऽनेकविधो द्रष्टव्यः, त एव च जिनास्तस्योपदेशकाः // 271 // पर्यायद्वारमाह उसभस्स पुवलक्खं, पुव्वंगूणमजिअस्स तं चेव / चउरंगणं लक्खं, पुणो पुणो जाव सुविहित्ति // 272 // ऋषभस्य श्रामण्यपर्यायः एकं पूर्वलक्षं 1, अजितस्य तदेवं पूर्वलक्षं एकेन पूर्वाङ्गेन न्यूनं, पूर्वाङ्ग नाम चतुरशीतिवर्षलक्षाणि 2, अत ऊर्द्ध चतुरङ्गोनं पूर्वलक्षं पुनः पुनस्तावद्वक्तव्यं यावत्सुविधिः, तथाहि सम्भवादीनां प्रतपर्यायः सर्वत्रैक पूर्वलक्षं चतुर्भिः पूवाडैन्यूनं 3, अष्टभिः 4, द्वादशभिः 5, षोडशभिः 6, विंशत्या 7, चतुर्विंशत्या 8, अष्टाविंशत्या पूर्वाङ्गैन्यूनं पूर्वलक्षं 9 // 272 // एवं सुविधिं यावदतिदेशेनाभिधाय शीतलानां प्रत्येकमाहपणवीसं तु सहस्सा, पुवाणं सीअलस्स परिआओ। लक्खाई इक्कवीसं, सिजंसजिणस्स वासाणं // 273 // पञ्चविंशतिः पूर्वाणां सहस्राणि व्रतपर्यायः 10, वर्षाणामेकविंशतिर्लक्षाणि 11 // 273 // // 212 //