________________ बावश्यकनियुक्तेरव चूर्णिः // 193 // ये मणिकादय आदिशब्दान्मुक्ताफलादयः, दवरकादिषु लोकेन प्रोताः क्रियन्ते तदेतत्प्रकर्षेण उतनं प्रोतं तदा प्रवृत्तं, नीत्यादीनि अथवा पोता नाम सागरे वहनानि-प्रवहणानि, तान्यपि तदैव प्रवृत्तानि 11, व्यवहारो नाम विसंवादे सति राजकुलकरणेघातान्तानि गत्वा निजनिजभाषालेखापनलक्षणः कार्यपरिच्छेदार्थ वा पणमुक्तिलक्षणः स उभयरूपोऽपि तदा प्रवृत्तः१२ // 15 // द्वाराणि णीई हकाराई, सत्तविहा अहव सामभेआई। जुद्धाइ बाहुजुद्धाइआइ वद्याइआणं वा // 16 // (भाष्यम्) भा० गा० कालदोषतो लोकानां प्रायः स्वस्वभावापगमात् सप्तविधा हक्कारादिका नीतिरभूत् , हक्कारः 1 मक्कारः 2 धिक्कारः 3 16-18 परिभाषणा 4 मण्डलीबन्धः५चारकप्रक्षेपः 6 महापराधेच्छविच्छेदः 7, एता विमलवाहनादारभ्य भरतकालपर्यन्तं कृत्वा यथायोगं प्रवृत्ताः, अथवा सामभेदादिका चतुर्द्धा-सामः 1 भेदः 2 दण्डः 3 उपप्रदानं 4, एषा चतुर्विधापि भगवत्काले समुत्पन्ना 13, युद्धानि यदि वा वर्तिकादीनामुभयान्यपि तदा प्रवृत्तानि 14 // 16 // | ईसत्थं धणुवेओ उवासणा मंसुकम्माईआ / गुरुरायाईणं वा, उवासणा पन्जुवासणया // 17 // (भाष्यम्) ___ इषुशास्त्रं धनुर्वेदः, स च तदैव राजधर्मे [ सति] प्रावर्त्तत 15, उपासना श्मश्रुकतनादि नापितकर्म, तदपि तदैव जातं, | यदिवा उपासना गुरुराजादीनां पर्युपासना, सापि तदैव प्रवृत्ता 16 // 17 // रोगहरणं तिगिच्छा अत्थागमसत्थमत्थसत्थंति।निअलाइजमो बंधो, घाओदंडाइताडणया॥१८॥(भाष्यम्) // 193 // चिकित्सा रोगापहारक्रिया 17, अर्थागमनिमित्तं शास्त्रमर्थशास्त्रमिति 18, बन्धो-निगडादिभिर्यमः-संयमनं 19, घातो दण्डादिभिस्ताडना // 20 // आ०चू०१७