SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1172 // 16 शतके उद्देशकः४ सूत्रम् 572 अन्नग्लायकचतुर्थादिभिः कर्मक्षयः वासकोडाकोडीएवानो खवयंति / / सेवं भंते! 2 जाव विहरइ॥सूत्रम् 572 // 16-4 // रायगिहे इत्यादि, अन्नगिलायते त्ति अन्नं विनाग्लायति ग्लानो भवतीत्यन्नग्लायकः प्रत्यग्रकूरादिनिष्पत्तिं यावद्भुक्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युषितकूरादि प्रातरेव भुङ्क्ते कूरगड्डकप्राय इत्यर्थः,चूर्णिकारेण तु निःस्पृहत्त्वात् ‘सीयकूरभोई अंतपंताहारो'त्ति व्याख्यातम्, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति?॥१॥ उच्यते, दृष्टान्ततः, स चायं से जहानामए केइ पुरिसे त्ति यथेति दृष्टान्ते नाम सम्भावने ए इत्यलङ्कारे से त्ति स कश्चित्पुरुषः जुन्ने त्ति जीर्णो हानिगतदेहः, स च कारणवशादवृद्धभावेऽपि स्यादत आहजराजज्जरियदेहे त्ति व्यक्तम्, अत एव सिढिल(त्ति) तयालितरंगसंपिणद्धगत्ते त्ति शिथिलतया त्वचावलीतरङ्गश्च संपिनद्धं परिगतम्, गात्रं देहो यस्य स तथा पविरलपरिसडियदंतसेढि त्ति प्रविरलाः केचित् क्वचिच्च परिशटिता दन्ता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा आउरे त्ति आतुरो दुःस्थः झुझिए त्ति बुभुक्षितो झुरित इति टीकाकारः दुब्बले त्ति बलहीनः किलंते त्ति मनः क्लमंगतः, एवंरूपो हि पुरुषश्छेदनेऽसमर्थो भवतीत्येवं विशेषितः, कोसंबगंडियं ति कोसंब'त्ति वृक्षविशेषस्तस्य गण्डिका खण्डविशेषस्तां जडिलं ति जटावतीं वलितोद्वलितामिति वृद्धाः गंठिल्लं तिग्रन्थिमती चिक्कणं तिश्लक्ष्णस्कन्धनिष्पन्नां वाइद्धन्ति व्यादिग्धां विशिष्टद्रव्योपदिग्धांवक्रामिति वृद्धाः अपत्तियं ति अपात्रिकामविद्यमानाधाराम्, एवम्भूता च गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, तथा परशुरपि मुण्डोऽच्छेदको भवतीति मुण्ड इति विशेषतः,शेषं तूद्देशकान्तं यावत् षष्ठशतवव्याख्येयमिति ॥६॥॥५७२॥षोडशशते चतुर्थः॥१६-४॥ // 1172 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy