________________ श्रीअभय वृत्तियुतम् भाग-३ // 1585 // 31 शतके उद्देशकः 1-28 सूत्रम् 829-841 क्षुल्लकयुग्मादीना मुत्पादः अज्झवसाण त्ति अनेन अज्झवसाणनिव्वत्तिएणं करणोवाएणं त्ति सूचितम् // 6 // // 829 // एकत्रिंशशते प्रथमः // 31-1 // द्वितीयस्तु कृष्णलेश्याश्रयः, सा च पञ्चमीषष्ठीसप्तमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति उववाओ जहा वक्तीए धूमप्पभापुढविनेरइयाणं ति, इह कृष्णलेश्या प्रक्रान्ता सा च धूमप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासज्ञिसरीसृपपक्षिसिंहवर्जा इति॥१॥॥८३०॥३१-२॥ तृतीयस्तु नीललेश्याश्रयः, सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति उववाओ जो वालुयप्पभाए त्ति, इह नीललेश्या प्रक्रान्ता सा च वालुकाप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासज्ञिसरीसृपवर्जा इति / परिमाणं जाणियव्वं ति, चतुरष्टद्वादशप्रभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः // 1 // // 831 // 31-3 // चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवीष्वितिकृत्वा सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्र भवतीति उववाओ जो रयणप्पभाए त्ति सामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः॥१॥॥८३२॥ शेषं सूत्रसिद्धम् / / 833-841 // एकत्रिंशं शतं वृत्तितः समाप्तम् // 31 // शतमेतद्भगवत्या भगवत्या भावितं मया वाण्याः। यदनुग्रहेण निरवग्रहेण सदनुग्रहेण तथा // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ता एकत्रिंशत्तमं शतकं समाप्तम्॥ // 1585 //