SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग | श्रीअभय वृत्तियुतम् भाग-३ // 1568 // 29 शतके उद्देशकः 1 सूत्रम् 822 समविषमप्रस्थापननिष्ठापने भंते! 2 इति // सूत्रम् 822 // 29-1 // जीवा णं भंते! पाव मित्यादि, समायं ति समकं बहवो जीवा युगपदित्यर्थः पट्ठविंसु त्ति प्रस्थापितन्वन्तः- प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव निट्ठविंसु त्ति 'निष्ठापितवन्तः' निष्ठां नीतवन्त इत्येक :, तथा समकं प्रस्थापितवन्तः विसम त्ति विषमं यथा भवति विषमतयेत्यर्थः निष्ठापितवन्त इति द्वितीयः, एवमन्यौ द्वौ॥१॥ अत्थेगइया समाउये त्यादि चतुर्भङ्गी, तत्र समाउय'त्ति समायुषः, उदयापेक्षया समकालायुष्कोदया इत्यर्थः समोववन्नग त्ति विवक्षितायुषः क्षये समकमेव भवान्तर उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः समकमेव च निष्ठापितवन्तः, नन्वायुःकमैवाश्रित्यैवमुपपन्नं भवति न तुपापं कर्म, तद्धिनायुष्कोदयापेक्षेप्रस्थाप्यते निष्ठाप्यते चेति, नैवम्, यतो भवापेक्षः कर्मणामुदयः / क्षयश्चेष्यते, उक्तञ्च उदयक्खयक्खओवसमे त्यादि, अत एवाह तत्थ णं जे ते समाउया समोववन्नया ते णं पावं कम्मं समायं पट्ठविंसु समायं निट्ठविंसु त्ति प्रथमः, तथा तत्थ णं जे ते समाउया विसमोववन्नग त्ति समकालायुष्कोदया विषमतया परभवोत्पन्ना मरणकालवैषम्यात् ते समायं पट्टविंसु त्ति आयुष्कविशेषोदयसम्पाद्यत्वात्पापकर्मवेदनविशेषस्य विसमायं निट्ठविंसु त्ति मरणवैषम्येण पापकर्मवेदनविशेषस्य विषमतया निष्ठासम्भवादिति द्वितीयः, तथा विसमाउया समोववन्नग त्ति विषमकालायुष्कोदया: समकालभवान्तरोत्पत्तयः तेणं पावं कम्मं विसमायं पट्ठविंसु समायं निट्ठविंसुत्ति तृतीयः,चतुर्थः सुज्ञात एवेति, इह चैतान् भङ्गकान् प्राक्तनशतभङ्गकांश्चाश्रित्य वृद्धैरुक्तं पट्ठवणसए किहणु हु समाउ उववन्नएसु चउभंगो। किह व समज्जणणसए गमणिज्जा अत्थओ भंगा? // 1 // पट्ठवणसए भंगा पुच्छाभंगाणुलोमओ वच्चा / यथा पृच्छाभङ्गाः समकप्रस्थापनादयो // 1568 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy