SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1561 // एवं चतुर्थादय एकादशान्ताः, नवरं अणंतरोगाढे त्ति उत्पत्तिसमयापेक्षयाऽत्रानन्तरावगाढत्वमवसेयम्, अन्यथाऽनन्तरोत्पन्ना 26 शतके नन्तरावगाढयोर्निर्विशेषता न स्यात्, उक्ता चासौ जहेवाणंतरोववन्नएही त्यादिना, एवं परम्परावगाढोऽपि, अनंतराहारए त्ति उद्देशकः 4-12 आहारकत्वप्रथमसमयवर्ती परम्पराहारकस्त्वाहारकत्वस्य द्वितीयादिसमयवर्ती, अणंतरपज्जत्त त्ति पर्याप्तकत्वप्रथमसमयवर्ती, सूत्रम् 817 सच पर्याप्तिसिद्धावपि तत उत्तरकालमेव पापकर्माद्यबन्धलक्षणकार्यकारी भवतीत्यसावनन्तरोपपन्नवव्यपदिश्यते, अत बन्ध्यादि एवाह एवं जहेव अणंतरोववन्नएही त्यादि। तथा चरमे णं भंते! नेरइए त्ति, इह चरमो यः पुनस्तं भवं न प्राप्स्यति, एवं जहेवे त्यादि, इह च यद्यप्यविशेषेणातिदेशः कृतस्तथाऽपि विशेषोऽवगन्तव्यः, तथाहि- चरमोद्देशकः परम्परोद्देशकवद्वाच्या इत्युक्तम्,परम्परोद्देशकश्च प्रथमोद्देशकवत्, तत्र च मनुष्यपद आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गा उक्ताः, तेषु च चरममनुष्यस्यायुष्ककर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्चरमोऽसावायुर्बद्धवान्न बध्नाति न च भन्त्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य इति // 1 // अचरमो यस्तं भवं पुनः प्राप्स्यति, तत्राचरमोद्देशके पधेन्द्रियतिर्यगन्तेषु पदेषु पापं कर्माश्रित्याद्यौ भङ्गको, मनुष्याणां तु चरमभङ्गकवर्जास्त्रयो यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति अचरिमे णं भंते! मणूसे इत्यादि वीससु पएसु त्ति, तानि चैतानि- जीव 1 सलेश्य 2 शुक्ललेश्य 3 शुक्लपाक्षिक 4 सम्यग्दृष्टि 5 ज्ञानि 6 मतिज्ञानादिचतुष्टय 10 नोसञोपयुक्त 11 वेद 12 सकषाय 13 लोभकषाय 14 सयोगि 15 मनोयोग्यादित्रय 18 साकारोपयुक्ता 19 नाकारोपयुक्त 20 लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरम-3 त्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तद्भावादिति। अलेस्से इत्यादि अलेश्यादयस्त्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः / ज्ञानावरणीयदण्डकोऽप्येवम्, नवरं विशेषोऽयं- पापकर्मदण्डके सकषायलोभकषायादिष्वाधास्त्रयो भङ्गका 1561 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy