________________ २५शतके उद्देशकः 6 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1505 // सूत्रम् 774-776 पुलाकादेग्रहसंज्ञाहारेतरा: बउसे णं भंते! पुच्छा, गोयमा! सन्नोवउत्ते वा होज्जा नोसन्नोवउत्ते वा होज्जा, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे सिणाए य जहा पुलाए 25 // सूत्रम् 775 // 123 पुलाए णं भंते! किं आहारए होज्जा अणाहारए होजा?, गोयमा! आहारए होजाणो अणाहारए होजा, एवं जाव नियंठे। 124 सिणाए पुच्छा, गोयमा! आहारए वा होज्जा अणाहारए वा होज्जा 26 // सूत्रम् 776 // पुलाए ण मित्यादि, पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव भवति, तत्सदृशसंयमस्थानसद्भावात्, एवं यस्य यत्सदृशानि संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते मुक्त्वा कषायकुशीलादीन्, कषायकुशीलो हि विद्यमानस्वसशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यते, अविद्यमानसमानसंयमस्थानकंच निर्ग्रन्थभावम्, निर्ग्रन्थस्तु कषायित्वं वा स्नातकत्वं वा याति, स्नातकस्तु सिद्ध्यत्येवेति // 115 / / निर्ग्रन्थसूत्रे कसायकुसीलं वा सिणायं वा इह भावप्रत्ययलोपात् कषायकुशीलत्वमित्यादिदृश्यम्, एवं पूर्वसूत्रेष्वपि, तत्रोपशमनिर्ग्रन्थः श्रेणीतः प्रच्यवमानः सकषायो भवति, श्रेणीमस्तके तु मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो, भवति नो संयतासंयतो देवत्वे तदभावात्, यद्यपि च श्रेणीपतितोऽसौ संयतासंयतोऽपि भवति तथाऽपि नासाविहोक्तः, अनन्तरं तदभावादिति // 119 // // 774 // | सज्ञाद्वारे सन्नोवउत्तेत्ति, इह सज्ञाऽऽहारादिसज्ञा तत्रोपयुक्तः कथञ्चिदाहाराद्यभिष्वङ्गवान् सज्ञोपयुक्तः, नोसज्ञोपयुक्तस्त्वाहाराद्युपभोगेऽपि तत्रानभिष्वक्तः, तत्र पुलाकनिर्ग्रन्थस्नातका नोसज्ञोपयुक्ता भवन्ति, आहारादिष्वनभिष्वङ्गात्, ननु निर्ग्रन्थस्नातकावेवं युक्तौ वीतरागत्वात्, न तु पुलाकः सरागत्वात्, नैवम्, न हि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसङ्गताया अपि प्रतिपादितत्वात्, चूर्णिकारस्त्वाह नोसन्ना नाणसन्न त्ति, तत्र च // 1505 //