SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1331 // अकतिसञ्चितास्त्वसङ्ख्यातगुणाः असङ्ख्यातस्थानकानामसङ्ख्यातत्वादित्येके, अन्ये त्वाहुः- वस्तुस्वभावोऽत्र कारणं न २०शतके तु स्थानकाल्पत्वादि, कथमन्यथा सिद्धाः कतिसञ्चिताः स्थानकबहुत्वेऽपि स्तोका अवक्तव्यकस्थानकस्यैकत्वेऽपि उद्देशकः 10 सूत्रम् 687 सङ्ख्यातगुणा व्यादित्वेन केवलिनामल्पानामायुःसमाप्तेः इयं च लोकस्वभावादेवेति // 12-13 / / नारकाद्युत्पादविशेषण कतिभूतसङ्ख्याऽधिकारादिदमाह नेरइया ण मित्यादि छक्कसमज्जिय त्ति षट् परिमाणमस्येति षट्कं वृन्दं तेन समर्जिताः पिण्डिताः संचितादि षट्कसमर्जिताः, अयमर्थः- एकत्र समये ये समुत्पद्यन्ते तेषां यो राशिःस षट्प्रमाणो यदि स्यात्तदा ते षट्कसमर्जिता उच्यन्ते / 1 नोछक्कसमज्जिय त्ति नोषट्कंषट्काभावस्ते चैकादयः पञ्चान्ताः, तेन नोषट्केन, एकाद्युत्पादेन ये समर्जितास्ते तथा 2 तथा छक्केण य नोछक्केण य समज्जिय त्ति एकत्र समये येषां षट्कमुत्पन्नमेकाद्यधिकं ते षट्केन नोषट्केन च समर्जिता उक्ताः छक्केहि यत्र समज्जिय त्ति एकत्र समये येषां बहूनि षट्कान्युत्पन्नानि ते षट्कैः समर्जिता उक्ताः 4 तथा छक्केहि य नोछक्केण य समज्जिय त्ति ब्ल एकत्र समये येषां बहूनि षट्कान्येकाद्यधिकानि ते षट्कै!षट्केन च समर्जिता एते पञ्च विकल्पाः, इह च नारकादीनां पञ्चापि विकल्पाः सम्भवन्ति, एकादीनामसङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः, असङ्ख्यातेष्वपि च ज्ञानिनः षट्कानि व्यवस्थापयन्तीति, एकेन्द्रियाणां त्वसङ्ख्यातानामेव प्रवेशानात् षट्कैः समर्जिताः, तथा षट्कै!षट्केन च समर्जिता इति / विकल्पद्वस्यैव सम्भव इति // 14 / / अत एवाह पुढविक्काइयाण मित्यादि // 15 // एषामल्पबहुत्वचिन्तायां नारकादयः स्तोका आद्याः, षट्कस्थानस्यैकत्वात्, द्वितीयास्तु सङ्ख्यातगुणाः, नोषट्कस्थानानां बहुत्वात्, एवं तृतीयचतुर्थपञ्चमेषु // 1331 // स्थानबाहुल्यात्सूत्रोक्तं बहुत्वमवसेयमित्येके, अन्ये तु वस्तुस्वभावादित्याहुरिति / एवं द्वादश सूत्राणि चतुरशीतिसूत्राणि चेति // 16-25 // // 687 // विंशतितमशते दशमः ॥२०-१०॥विंशतितमशतं वृत्तितः परिसमाप्तमिति॥२०॥
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy