________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1317 // 20 शतके उद्देशकः 7 सूत्रम् 674 जीवप्रयोगबन्धादि उद्देशक:८ अणंतरबंधे परंपरबंधे, सेवं भंते! 2 जाव विहरति ॥सूत्रम् 674 // 2087 // कतिविहेण मित्यादि, जीवप्पओगबंधे त्ति जीवस्य प्रयोगेण मनःप्रभृतिव्यापारेण, बन्धः कर्मपुद्गलानामात्मप्रदेशेषु संश्लेषो बद्धस्पृष्टादिभावकरणं जीवप्रयोगबन्धः, अणंतरबंधे त्ति येषां पुद्गलानां बद्धानां सतामनन्तरः समयो वर्त्तते तेषामनन्तरबन्ध उच्यते, येषां तु बद्धानां द्वितीयादिः समयो वर्त्तते तेषां परम्परबन्ध इति॥१॥णाणावरणिज्जोदयस्स त्ति 'ज्ञानावरणीयोदयस्य' ज्ञानावरणीयोदयरूपस्य कर्मण उदयप्राप्तज्ञानावरणीयकर्मण इत्यर्थः, अस्य च बन्धो भूतभावापेक्षयेति, अथवा ज्ञानावरणीयतयोदयो यस्य कर्मणस्तत्तथा, ज्ञानावरणादिकर्म हि किञ्चिज्ज्ञानाद्यावारकतया विपाकतो वेद्यते किञ्चित्प्रदेशत एवेत्युदयेन विशेषितं कर्म, अथवा ज्ञानावरणीयोदये यद्बध्यते वेद्यते वा तज्ज्ञानावरणीयोदयमेव तस्येति, एवमन्यत्रापि सम्मद्दिठ्ठीए इत्यादि, ननु सम्मद्दिट्ठी त्यादौ कथं बन्धो दृष्टिज्ञानाज्ञानानामपौगलिकत्वात्?, अत्रोच्यते, नेह बन्धशब्देन कर्मपुद्गलानां बन्धो विवक्षितः किन्तुसम्बन्धमात्रम्, तच्च जीवस्य दृष्टयादिभिर्द्धमः सहास्त्येव, जीवप्रयोगबन्धादिव्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् अत एवाभिनिबोधिकज्ञानविषयस्येत्याद्यपि निरवाज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति, इह सङ्ग्रहगाथे जीवप्पओगबंधे अणंतरपरंपरे च बोद्धव्वे 8 / पगडी 8 उदए 8 वेए 3 दंसणमोहे चरित्ते य॥१॥ओरालियवेउब्विय आहारगतेयकम्मए चेव। सन्ना 4 लेस्सा 6 दिट्ठी 3 णाणा 5 णाणेसु 3 तब्विसए 8 // 2 // // 8 // // 674 // विंशतितमशते सप्तमः॥ 20-7 // ॥विंशतितमशतके अष्टमोद्देशकः॥ सप्तमे बन्ध उक्तस्तद्विभागश्च कर्मभूमिषु तीर्थकरैः प्ररूप्यत इति कर्मभूम्यादिकमष्टमे प्ररूप्यत इत्येवंसम्बद्धस्या // 1317 //